अस्य श्री शिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः | श्री सदाशिवो देवता | अनुष्टुप् छन्दः | श्री सदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ||
चरितं देवदेवस्य महादेवस्य पावनम् |
अपारं परमोदारं चतुर्वर्गस्य साधनम् || १ ||
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् |
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः || २ ||
गङ्गाधरः शिरः पातु फालमर्धेन्दुशेखरः |
नयने मदनध्वंसी कर्णौ सर्पविभूषणः || ३ ||
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः |
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः || ४ ||
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः |
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् || ५ ||
हृदयं शङ्करः पातु जठरं गिरिजापतिः |
नाभिं मृत्युञ्जयः पातु कटिं व्याघ्राजिनाम्बरः || ६ ||
सक्थिनी पातु दीनार्तशरणागतवत्सलः |
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः || ७ ||
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः |
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः || ८ ||
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् |
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् || ९ ||
ग्रहभूतपिशाचाद्याः त्रैलोक्ये विचरन्ति ये |
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् || १० ||
अभयङ्करनामेदं कवचं पार्वतीपतेः |
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् || ११ ||
इमां नारायणः स्वप्ने शिवरक्षां यथाऽदिशत् |
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् || १२ ||
इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रम् |