नमोऽस्तुते भैरव भीममूर्ते त्रैलोक्य गोप्त्रेशितशूलपाणे |
कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि विपन्न बुद्धिम् || १ ||
जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ |
त्रैलोक्य मातर्गुरवे वृषाङ्क भीतश्शरण्यं शरणा गतोस्मि || २ ||
त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणुममर्षिताश्च |
भीमं च यक्षा मनुजा महेश्वरं भूतानि भूताधिप मुच्चरन्ति || ३ ||
निशाचरास्तूग्रमुपाचरन्ति भवेति पुण्याः पितरो नमस्ते |
दासोऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ || ४ ||
भवां-स्त्रिदेव-स्त्रियुग-स्त्रिधर्मा त्रिपुष्करश्चासि विभो त्रिनेत्र |
त्रयारुणिस्त्वं श्रुतिरव्ययात्मा पुनीहि मां त्वां शरणं गतोऽस्मि || ५ ||
त्रिणाचिकेत-स्त्रिपदप्रतिष्ठ-ष्षडङ्गवित् स्त्रीविषयेष्वलुब्धः |
त्रैलोक्यनाथोसि पुनीहि शंभो दासोऽस्मि भीतश्शरणागतस्ते || ६ ||
कृतो महाशङ्कर तेऽपराधो मया महाभूतपते गिरीश |
कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतोऽस्मि || ७ ||
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः |
त्राहि मां देवदेवेश सर्वपापहरो भव || ८ ||
मम दैवापराधोस्ति त्वया वै तादृशोप्यहम् |
स्पृष्टः पापसमाचारो मां प्रसन्नो भवेश्वर || ९ ||
त्वं कर्ता चैव धाता च जयत्वं च महाजय |
त्वं मङ्गल्यस्त्वमोङ्कार-स्त्वमोङ्कारो व्ययो धृतः || १० ||
त्वं ब्रह्मसृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः |
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं तु हितोत्तमः || ११ ||
सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तश्चधीवरः |
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् || १२ ||
त्वमादिरन्तो मध्यं च त्वमेव च सहस्रपात् |
विजयस्त्वं सहस्राक्षो चित्तपाख्यो महाभुजः || १३ ||
अनन्तस्सर्वगो व्यापी हंसः पुण्याधिकोच्युतः |
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिश्शिवः || १४ ||
त्रैविद्यस्त्वं जितक्रोधो जितारातिर्जितेन्द्रियः |
जयश्च शूलपाणि स्त्वं पाहि मां शरणागतम् || १५ ||
इति श्रीवामनपुराणान्तर्गता अन्धककृत शिवस्तुतिः |