कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय |
पृथ्वीरधाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमश्शिवाय || १ ||
भक्तार्तिभञ्जन पराय परात्पराय
कालाभ्रकान्ति गरलाङ्कितकन्धराय |
भूतेश्वराय भुवनत्रयकारणाय
हालास्यमध्यनिलयाय नमश्शिवाय || २ ||
भूदारमूर्ति परिमृग्य पदाम्बुजाय
हंसाब्जसम्भवसुदूर सुमस्तकाय |
ज्योतिर्मय स्फुरितदिव्यवपुर्धराय
हालास्यमध्यनिलयाय नमश्शिवाय || ३ ||
कादम्बकानननिवास कुतूहलाय
कान्तार्धभाग कमनीयकलेबराय |
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमश्शिवाय || ४ ||
विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्टविदितात्म सुवैभवाय |
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्यमध्यनिलयाय नमश्शिवाय || ५ ||
सम्पत्प्रदाय सकलागम मस्तकेषु
सङ्घोषितात्म विभवाय नमश्शिवाय |
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमश्शिवाय || ६ ||
गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरद्भुजगमण्डलमण्डिताय |
गन्धर्व किन्नर सुगीतगुणात्मकाय
हालास्यमध्यनिलयाय नमश्शिवाय || ७ ||
साणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरस्स्वयमभूत्परमेश्वरो यः |
तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमश्शिवाय || ८ ||
गीर्वाणदेशिकगिरामपि दूरगं य-
द्वक्तुं महत्त्वमिह को भवतः प्रवीणः |
शम्भो क्षमस्व भगवच्चरणारविन्द-
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश || ९ ||
इति श्रीहालास्यमाहात्म्ये वरुणकृत शिवस्तोत्रम् |