विघ्नेश विघ्नचयखण्डननामधेय
श्रीशङ्करात्मज सुराधिपवन्द्यपाद |
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् || १ ||
सत्पद्मरागमणिवर्णशरीरकान्तिः
श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः |
वक्षःस्थले वलयितातिमनोज्ञशुण्डो
विघ्नं ममापहर सिद्धिविनायक त्वम् || २ ||
पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि-
-र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः |
सिन्दूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम् || ३ ||
कार्येषु विघ्नचयभीतविरिञ्चमुख्यैः
सम्पूजितः सुरवरैरपि मोदकाद्यैः |
सर्वेषु च प्रथममेव सुरेषु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम् || ४ ||
शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठ-
-स्थूलेन्दुरुद्रगणहासितदेवसङ्घः |
शूर्पश्रुतिश्च पृथुवर्तुलतुङ्गतुन्दो
विघ्नं ममापहर सिद्धिविनायक त्वम् || ५ ||
यज्ञोपवीतपदलम्भितनागराज
मासादिपुण्यददृशीकृतऋक्षराजः |
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम् || ६ ||
सद्रत्नसारततिराजितसत्किरीटः
कौसुम्भचारुवसनद्वय ऊर्जितश्रीः |
सर्वत्रमङ्गलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम् || ७ ||
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोऽपहर्ता |
आनन्दितत्रिभुवनेश कुमारबन्धो
विघ्नं ममापहर सिद्धिविनायक त्वम् || ८ ||
इति श्रीमुद्गलपुराणे श्रीसिद्धिविनायक स्तोत्रं सम्पूर्णम् |