लङ्कायां शाङ्करीदेवी कामाक्षी काञ्चिकापुरे |
प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे || १ ||
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका |
कोल्हापुरे महालक्ष्मी मुहुर्ये एकवीरिका || २ || [माहुर्ये]
उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका |
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके || ३ ||
हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी |
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका || ४ ||
वाराणस्यां विशालाक्षी काश्मीरेषु सरस्वती |
अष्टादश सुपीठानि योगिनामपि दुर्लभम् || ५ ||
सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् |
सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् || ६ ||
इति अष्टादश शक्तिपीठ स्तोत्रम् |