वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः |
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च || १ ||
जनार्दनः पद्मनाभो वेङ्कटाचलवासिनः |
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः || २ ||
गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः |
वराहो वामनश्चैव नारायण अधोक्षजः || ३ ||
श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः |
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः || ४ ||
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः |
चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः || ५ ||
श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः |
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः || ६ ||
भूतावासो गिरिवासः श्रीनिवासः श्रियः पतिः |
अच्युतानन्त गोविन्दो विष्णुर्वेङ्कटनायकः || ७ ||
सर्वदेवैकशरणं सर्वदेवैकदैवतम् |
समस्तदेवकवचं सर्वदेवशिखामणिः || ८ ||
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः |
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते || ९ ||
राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे |
भूतसर्पपिशाचादिभयं नास्ति कदाचन || १० ||
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् |
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् || ११ ||
यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः |
ऐश्वर्यं राजसम्मानं भुक्तिमुक्तिफलप्रदम् || १२ ||
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् |
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् || १३ ||
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् |
स्वामिपुष्करिणीतीरे रमया सह मोदते || १४ ||
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने |
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः || १५ ||
इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटगिरिमाहात्म्ये श्री वेङ्कटेश अष्टकम् |