जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् |
सर्वरोगहरं देवं दत्तात्रेयमहं भजे || १ ||
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान्नारदऋषिः, अनुष्टुप् छन्दः, श्रीदत्तः परमात्मा देवता, श्रीदत्त प्रीत्यर्थे जपे विनियोगः |
नारद उवाच |
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे |
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तु ते || १ ||
जराजन्मविनाशाय देहशुद्धिकराय च |
दिगम्बर दयामूर्ते दत्तात्रेय नमोऽस्तु ते || २ ||
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च |
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तु ते || ३ ||
ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित |
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तु ते || ४ ||
यज्ञभोक्त्रे च यज्ञाय यज्ञरूपधराय च |
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तु ते || ५ ||
आदौ ब्रह्मा हरिर्मध्ये ह्यन्ते देवः सदाशिवः | [मध्ये विष्णु]
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते || ६ ||
भोगालयाय भोगाय योगयोग्याय धारिणे |
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तु ते || ७ ||
दिगम्बराय दिव्याय दिव्यरूपधराय च |
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तु ते || ८ ||
जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने |
जयमान सतां देव दत्तात्रेय नमोऽस्तु ते || ९ ||
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे |
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तु ते || १० ||
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले |
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तु ते || ११ ||
अवधूत सदानन्द परब्रह्मस्वरूपिणे |
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तु ते || १२ ||
सत्यरूप सदाचार सत्यधर्मपरायण |
सत्याश्रय परोक्षाय दत्तात्रेय नमोऽस्तु ते || १३ ||
शूलहस्त गदापाणे वनमालासुकन्धर |
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोऽस्तु ते || १४ ||
क्षराक्षरस्वरूपाय परात्परतराय च |
दत्त मुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तु ते || १५ ||
दत्त विद्याढ्य लक्ष्मीश दत्त स्वात्मस्वरूपिणे |
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तु ते || १६ ||
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् |
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तु ते || १७ ||
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् |
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् || १८ ||
इति श्रीनारदपुराणे नारदविरचितं श्री दत्तात्रेय स्तोत्रम् |