अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् |
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा || १ ||
फलशृति |
एतानि नव नामानि नागानां च महात्मनाम् |
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः || २ ||
सन्तानं प्राप्यते नूनं सन्तानस्य च रक्षकाः |
सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् || ३ ||
सर्पदर्शनकाले वा पूजाकाले च यः पठेत् |
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् || ४ || [सर्प]
ओं नागराजाय नमः प्रार्थयामि नमस्करोमि ||
इति नवनाग स्तोत्रम् |