जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे |
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ||
नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे |
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ||
तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा |
कीर्तिता वापि स्मृता वापि पवित्रयति मानवम् ||
नमामि शिरसा देवीं तुलसीं विलसत्तनुं |
यां दृष्ट्वा पापिनो मर्त्याः मुच्यन्ते सर्वकिल्बिषात् ||
तुलस्या रक्षितं सर्वं जगदेतच्चराचरं |
या विनर्हन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ||
नमस्तुलस्यतितरां यस्यै बद्धाञ्जलिं कलौ |
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ||
तुलस्या नापरं किञ्चिद्दैवतं जगतीतले |
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ||
तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ |
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ||
तुलस्यां सकला देवा वसन्ति सततं यतः |
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ||
नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे |
पाहि मां सर्व पापेभ्यः सर्वसम्पत्प्रदायिके ||
इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता |
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ||
तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी |
धर्म्या धर्मानना देवी देवदेवमनःप्रिया ||
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला |
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ||
लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् |
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ||
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे |
नमस्ते नारदनुते नारायणमनःप्रिये ||
इति श्रीपुण्डरीककृतं तुलसीस्तोत्रम् ||