नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च |
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः || १
कीर्तनं श्रवणं दानं दर्शनं चाऽपि पार्धिव |
गवां प्रशस्यते वीर सर्वपापहरं शिवम् || २
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः |
घृतनद्यो घृतावर्तास्तामे सन्तु सदा गृहे || ३
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्टितं |
घृतं सर्वेषु गात्रेषु घृतं मे मनसिस्थितम् || ४
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च |
गावो मे सर्वतश्चैव गवां मध्येवसाम्यहम् || ५
इत्याचम्य जपेत्सायं प्रातश्च पुरुषस्सदा |
यदह्नात्कुरुतेपापं तस्मात् स परिमुच्यते || ६