श्री कृष्ण उवाच |
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् |
अनन्यगतिकानां च प्रभुर्भक्तैकवत्सलः || १
शनैश्चरस्तत्र नृसिंहदेव
स्तुतिं चकारामल चित्तवृतिः |
प्रणम्य साष्टाङ्गमशेषलोक
किरीट नीराजित पादपद्मम् || २ ||
श्री शनिरुवाच |
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मषराशिनाशम् |
कल्याणकारकमशेषनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् || ३ ||
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी |
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् || ४ ||
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् |
योगीश्वरैरपगताऽखिलदोषसङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् || ५ ||
प्रह्लादभक्तवचसा हरिराविरासीत्
स्तम्भे हिरण्यकशिपुं य उदारभावः |
ऊर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् || ६ ||
यो नैजभक्तमनलाम्बुधि भूधरोग्र-
-शृङ्गप्रपात विषदन्तसरीसृपेभ्यः |
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् || ७ ||
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः |
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् || ८ ||
यद्रूपमुग्रमरिमर्दन भावशाली
सञ्चिन्तनेन सकलाभवभीतिहारी | [अघविनाशकारि]
भूत ज्वर ग्रह समुद्भव भीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् || ९ ||
यस्योत्तमं यश उमापतिमग्रजन्म
शक्रादि दैवत सभासु समस्तगीतम् |
श्रुत्वैक सर्वशमलप्रशमेकदक्षं [शक्त्यैव]
स त्वं नृसिंह मयि देहि कृपावलोकम् || १० ||
श्रीकृष्ण उवाच |
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः |
उवाच ब्रह्म वृन्दस्थं शनिं तं भक्तवत्सलः || ११ ||
श्रीनृसिंह उवाच |
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् |
यं वाञ्छसि तमेव त्वं सर्वलोक हितावहम् || १२ ||
श्री शनिरुवाच |
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे |
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते || १३ ||
मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च |
सर्वान् कामन् पूरयेथाः तेषां त्वं लोकभावन || १४ ||
श्री नृसिंह उवाच |
तथैवास्तु शनेऽहं वै रक्षो भुवनसंस्थितः |
भक्त कामान् पूरयिष्ये त्वं ममैकं वचः शृणु || १५ ||
त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः |
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै || १६ ||
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह |
ततः परमसन्तुष्टो जयेति मुनयोवदन् || १७ ||
श्री कृष्ण उवाच |
इदं शनैश्चरस्याथ नृसिंह देव
संवादमेतत् स्तवनं च मानवः |
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् || १८ ||
इति श्री भविष्योत्तरपुराणे श्री शनैश्चर कृत श्री नृसिंह स्तुतिः |