छोड़कर सामग्री पर जाएँ

Shiva Panchayatana Shodasa Upachara Puja in Hindi – शिव पंचायतन षोडश उपचार पुज

📿 100% Original Karungali Mala | Authentic & Lab Certified | 50% OFF | Free Shipping | Buy Now 📿
100% Original Karungali Mala 📿

🕉️ 100% Original Karungali Mala

Authentic & Lab Certified Pure Karungali Wood for Divine Protection & Positive Energy.

₹999 ₹499 50% OFF
⏳ Limited Time Offer
🔱 Buy Now @ ₹499 📿
Secure Payment - Powered by Razorpay
🔒 Secure Payment | Trusted Checkout
📿 100% Original Karungali Mala | 50% OFF | Limited Offer 📿 | Free shipping all over india
Original Karungali Mala 📿
Original Karungali Mala (Lab Certified)
₹999 ₹499 50% OFF

Join MantraSamhita WhatsApp Channel

Stay updated with the latest Hindu texts, updates, and exclusive content.

Join Now

पूर्वांग पूजा
शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ||
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ||

प्रार्थना
शुक्लांबरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् |
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ||
अगजानन पद्मार्कं गजाननमहर्निशम् |
अनेकदं तं भक्तानां एकदंतमुपास्महे ||

दे॒वीं-वाँच॑मजनयंत दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदंति |
सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ||

यः शिवो नाम रूपाभ्यां-याँ देवी सर्वमंगला |
तयोः संस्मरणान्नित्यं सर्वदा जय मंगलम् ||

तदेव लग्नं सुदिनं तदेव
ताराबलं चंद्रबलं तदेव |
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽंघ्रियुगं स्मरामि ||

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ||

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः |
एषामिंदीवरश्यामो हृदयस्थो जनार्दनः ||

सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तु ते ||

श्रीलक्ष्मीनारायणाभ्यां नमः |
उमामहेश्वराभ्यां नमः |
वाणीहिरण्यगर्भाभ्यां नमः |
शचीपुरंदराभ्यां नमः |
अरुंधतीवसिष्ठाभ्यां नमः |
श्रीसीतारामाभ्यां नमः |
मातापितृभ्यो नमः |
सर्वेभ्यो महाजनेभ्यो नमः |

कर्पूर गौरं करुणावतारं
संसारसारं भुजगेंद्र हारम् |
सदा रमंतं हृदयारविंदे
भवं भवानी सहितं नमामि ||

वागर्थाविव संपृक्तौ वागर्थ प्रतिपत्तये |
जगतः पितरौ वंदे पार्वती परमेश्वरौ ||

वंदे महेशं सुरसिद्धसेवितं
देवांगना गीत सुनृत्य तुष्टम् |
पर्यंकगं शैलसुतासमेतं
कल्पद्रुमारण्यगतं प्रसन्नम् ||

आपाताल-नभःस्थलांत-भुवन-ब्रह्मांड-माविस्फुरत्-
ज्योतिः स्फाटिक-लिंग-मौलि-विलसत्-पूर्णेंदु-वांतामृतैः |
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकांजपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं-विँप्रोऽभिषिंचे-च्चिवम् ||

ब्रह्मांड व्याप्तदेहा भसित हिमरुचा भासमाना भुजंगैः
कंठे कालाः कपर्दाः कलित-शशिकला-श्चंड कोदंड हस्ताः |
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चंतु सौख्यम् ||

दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः |
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ||
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् |
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ||
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ||
पूजार्थे हरिद्रा कुंकुम विलेपनं करिष्ये ||

आचम्य
ॐ केशवाय स्वाहा |
ॐ नारायणाय स्वाहा |
ॐ माधवाय स्वाहा |
ॐ गोविंदाय नमः |
ॐ-विँष्णवे नमः |
ॐ मधुसूदनाय नमः |
ॐ त्रिविक्रमाय नमः |
ॐ-वाँमनाय नमः |
ॐ श्रीधराय नमः |
ॐ हृषीकेशाय नमः |
ॐ पद्मनाभाय नमः |
ॐ दामोदराय नमः |
ॐ संकर्​षणाय नमः |
ॐ-वाँसुदेवाय नमः |
ॐ प्रद्युम्नाय नमः |
ॐ अनिरुद्धाय नमः |
ॐ पुरुषोत्तमाय नमः |
ॐ अधोक्षजाय नमः |
ॐ नारसिंहाय नमः |
ॐ अच्युताय नमः |
ॐ जनार्दनाय नमः |
ॐ उपेंद्राय नमः |
ॐ हरये नमः |
ॐ श्रीकृष्णाय नमः |

भूतोच्चाटनम्
उत्तिष्ठंतु भूतपिशाचाः य एते भूमि भारकाः |
एतेषामविरोधेन ब्रह्मकर्म समारभे ||
अपसर्पंतु ते भूता ये भूता भूमिसंस्थिताः |
ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाऽज्ञया ||

प्राणायामम्
ॐ भूः ॐ भुवः॑ ओग्‍ं सुवः॑ ॐ महः॑ ॐ जनः॑ ॐ तपः॑ ओग्‍ं सत्यम् |
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि |
धियो॒ यो नः॑ प्रचो॒दया᳚त् ||
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ||

संकल्पम्
ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं,
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराह कल्पे वैवस्वत मन्वंतरे अष्टाविंशति तमे कलियुगे प्रथमे पादे जंबूद्वीपे भारतवर्​षे भरतखंडे मेरोः दक्षिणे पार्​श्वे शकाब्दे अस्मिन् वर्तमाने व्यवहारिके प्रभवादि षष्ठ्याः सं​वँथ्सराणां मद्ध्ये ……… नामसं​वँथ्सरे ……ऽयने ………. ऋतौ …….. मासे …………पक्षे ………. शुभतिथौ. ………….. वासरयुक्तायां …………. नक्षत्रयुक्तायां, शुभयोग शुभकरण एवं गुण सकल विशेषण विशिष्टायां अस्यां ………..शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं ………. नक्षत्रे …….राशौ जातस्य ……….शर्मणः मम ………. नक्षत्रे ……………राशौ ………….जातयाः मम धर्मपत्न्याश्च आवयोः सकुटुंबयोः …………… सपुत्रकयोः सबंधुवर्गयोः साश्रित-जनयोश्च क्षेम-स्थैर्य-वीर्य-विजय, आयुरारोग्य-ऐश्वर्याणां अभिवृद्ध्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं, सर्वारिष्ट शांत्यर्थं, सर्वाभीष्ट सिद्ध्यर्थं, सपरिवार सोमास्कंद परमेश्वर चरणारविंदयोः अचंचल-निष्कपट-भक्ति सिद्ध्यर्थं, यावच्छक्ति परिवार सहित रुद्रविधानेन ध्यान-आवाहनादि-षोडशोपचार-पूजा पुरस्सरं महान्यासजप (लघुन्यासजप) रुद्राभिषेक-अर्च्चनादि सहित सांबशिव पूजां करिष्ये |
तदंगं कलश-शंख-आत्म-पीठ-पूजां च करिष्ये | (द्वि)

(निर्विघ्न पूजा परिसमाप्त्यर्थं आदौ श्रीमहागणपति पूजां करिष्ये |)
श्री महागणपति पूजा ||

तदंग कलशाराधनं करिष्ये |

कलशाराधनम्
कलशे गंध पुष्पाक्षतैरभ्यर्च्य |
कलशे उदकं पूरयित्वा |
कलशस्योपरि हस्तं निधाय |

कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः |
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृता ||

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा |
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ||
अंगैश्च सहिताः सर्वे कलशांबु समाश्रिताः |

ॐ आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते |
उ॒क्थैर्य॒ज्ञेषु॑ वर्धते |

आपो॒ वा इ॒दग्‍ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छंदा॒ग्॒‍स्यापो॒
ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्यापः॑ स॒त्यमापः॒
सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒ सुव॒राप॒ ओम् ||

गंगे च यमुने चैव गोदावरी सरस्वती |
नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ||
कावेरी तुंगभद्रा च कृष्णवेणी च गौतमी |
भागीरथीति विख्याताः पंचगंगाः प्रकीर्तिताः ||

आयांतु श्री शिवपूजार्थं मम दुरितक्षयकारकाः |
ॐ भूर्भुवस्सुवो भूर्भुवस्सुवो भूर्भुवस्सुवः ||
ॐ ॐ ॐ कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य,
देवं संप्रोक्ष्य, आत्मानं च संप्रोक्ष्य ||

पंचकलश स्थापनं
पश्चिमं
स॒द्यो जा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ |
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् | भ॒वोद्भ॑वाय॒ नमः॑ ||
ॐ भूर्भुव॒स्सुव॒रोम् |
अस्मिन् पश्चिमकलशे सद्योजातं ध्यायामि | आवाहयामि |

उत्तरं
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ | ॐ भूर्भुव॒स्सुव॒रोम् | अस्मिन् उत्तरकलशे वामदेवं ध्यायामि | आवाहयामि |

दक्षिणं
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः |
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ||
ॐ भूर्भुव॒स्सुव॒रोम् |
अस्मिन् दक्षिणकलशे अघोरं ध्यायामि | आवाहयामि |

पूर्वं
ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि | तन्नो॑ रुद्रः प्रचो॒दया᳚त् ||
ॐ भूर्भुव॒स्सुव॒रोम् |
अस्मिन् पूर्वकलशे तत्पुरुषं ध्यायामि | आवाहयामि |

मद्ध्यमं
ईशानः सर्व॑विद्या॒ना॒-मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒ र्ब्रह्म॒णोऽधि॑पति॒ र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशिवोम् ||
ॐ भूर्भुव॒स्सुव॒रोम् |
अस्मिन् मद्ध्यम कलशे ईशानं ध्यायामि | आवाहयामि |

प्राणप्रतिष्ठा
ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒
पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् |
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं᳚त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ||
अ॒मृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ||

स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् |
तावत् त्वं प्रीतिभावेन लिंगेऽस्मिन् संन्निधिं कुरु ||

ॐ त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒ वर्ध॑नम् |
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ||

आवाहितो भव | स्थापितो भव | सन्निहितो भव | सन्निरुद्धो भव | अवकुंठितो भव | सुप्रीतो भव | सुप्रसन्नो भव | वरदो भव |
स्वागतं अस्तु | प्रसीद प्रसीद |

लघुन्यासं / महान्यासम् ||

ध्यानं
कैलासे कमनीय रत्न खचिते कल्पद्रुमूले स्थितं
कर्पूर स्फटिकेंदु सुंदर तनुं कात्यायनी सेवितम् |
गंगोत्तुंग तरंग रंजित जटा भारं कृपासागरं
कंठालंकृत शेषभूषणमहं मृत्युंजयं भावये ||
ॐ श्री उमामहेश्वर स्वामिने नमः ध्यायामि |

आवाहनं (ॐ स॒द्योजा॒तं प्र॑पद्या॒मि)
ॐकाराय नमस्तुभ्यं ॐकारप्रिय शंकर |
आवाहनं गृहाणेदं पार्वतीप्रिय वल्लभ ||
ॐ श्री उमामहेश्वर स्वामिने नमः आवाहयामि |

आसनं (ॐ स॒द्योजा॒ताय॒वै नमो॒ नमः॑)
नमस्ते गिरिजानाथ कैलासगिरि मंदिर |
सिंहासनं मया दत्तं स्वीकुरुष्व उमापते ||
श्री उमामहेश्वर स्वामिने नमः नवरत्न खचित हेम सिंहासनं समर्पयामि |

पाद्यं (ॐ भवे भ॑वे॒न)
महादेव जगन्नाथ भक्तानामभयप्रद |
पाद्यं गृहाण देवेश मम सौख्यं-विँवर्धय ||
श्री उमामहेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि |

अर्घ्यं (ॐ अति॑ भवे भवस्व॒मां)
शिवाप्रिय नमस्तेस्तु पावनं जलपूरितम् |
अर्घ्यं गृहाण भगवन् गांगेय कलशस्थितम् ||
श्री उमामहेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि |

आचमनं (ॐ भ॒वोद्भ॑वाय॒ नमः)
वामदेव सुराधीश वंदितांघ्रि सरोरुह |
गृहाणाचमनं देव करुणा वरुणालय ||
श्री उमामहेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि |

मधुपर्कं
यमांतकाय उग्राय भीमाय च नमो नमः |
मधुपर्कं प्रदास्यामि गृहाण त्वमुमापते ||
श्री उमामहेश्वर स्वामिने नमः मधुपर्कं समर्पयामि |

पंचामृत स्नानं
1. आप्यायस्येति क्षीरं (milk) –
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् |
भवा॒ वाज॑स्य संग॒थे ||
श्री भवानीशंकरास्वामिने नमः क्षीरेण स्नपयामि |

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | क्षीरस्नानानंतरं शुद्धोदक स्नानं समर्पयामि |

2. दधिक्राव्णो इति दधि (yogurt) –
ॐ द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |
सु॒रभि नो॒ मुखा॑ कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ||
श्री भवानीशंकरास्वामिने नमः | दध्ना स्नपयामि |

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | दधिस्नानानंतरं शुद्धोदक स्नानं समर्पयामि |

3. शुक्रमसीति आज्यं (ghee) –
ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ |
श्री भवानीशंकरास्वामिने नमः | आज्येन स्नपयामि |

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | आज्य स्नानानंतरं शुद्धोदक स्नानं समर्पयामि |

4. मधुवाता ऋतायते इति मधु (honey) –
ॐ मधु॒वाता॑ ऋताय॒ते मधु॑क्षरंति॒ सिंध॑वः |
माध्वी᳚र्नः सं॒त्वौष॑धीः |
मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ |
मधु॒द्यौर॑स्तु नः पि॒ता |
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्यः॑ |
माध्वी॒र्गावो॑ भवंतु नः |
श्री भवानीशंकरास्वामिने नमः | मधुना स्नपयामि |

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | मधुस्नानानंतरं शुद्धोदक स्नानं समर्पयामि |

5. स्वादुः पवस्येति शर्करा (sugar) –
ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने |
स्वा॒दुरिंद्रा᳚य सु॒हवी᳚तु नाम्ने᳚ |
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ |
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः |
श्री भवानीशंकरास्वामिने नमः | शर्करया स्नपयामि |

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | शर्कर स्नानानंतरं शुद्धोदक स्नानं समर्पयामि |

शंखोदकं
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | शंखोदकेन स्नपयामि ||

फलोदकं
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः᳚ |
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुंचं॒त्वग्‍ं ह॑सः ||
श्री भवानीशंकरास्वामिने नमः | फलोदकेन स्नपयामि |

गंधोदकं
गं॒ध॒द्वा॒रां दु॑राध॒र्​षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् |
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ||
श्री भवानीशंकरास्वामिने नमः | गंधोदकेन स्नपयामि |

पुष्पोदकं
यो॑ऽपां पुष्पं॒-वेँद॑ |
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति |
चं॒द्रमा॒ वा अ॒पां पुष्पम्᳚ |
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति |
श्री भवानीशंकरास्वामिने नमः | पुष्पोदकेन स्नपयामि |

अक्षतोदकं
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहंतु पु॒ष्पिणीः᳚ |
ह्र॒दाश्च॑ पुं॒डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे |
श्री भवानीशंकरास्वामिने नमः | अक्षतोदकेन स्नपयामि |

सुवर्णोदकं
तथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्यमभवत् |
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ |
य ए॒वग्ं सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒वे॑द |
सु॒वर्ण॑ आ॒त्मना॑ भवति |
श्री भवानीशंकरास्वामिने नमः | सुवर्णोदकेन स्नपयामि |

रुद्राक्षोदकं
त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒ वर्ध॑नम् |
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ||
श्री भवानीशंकरास्वामिने नमः | रुद्राक्षोदकेन स्नपयामि |

भस्मोदकं
मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तम् |
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑
प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः |
श्री भवानीशंकरास्वामिने नमः | भस्मोदकेन स्नपयामि |

बिल्वोदकं
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः |
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्​ह॒विष्मं॑तो॒
नम॑सा विधेम ते |
श्री भवानीशंकरास्वामिने नमः | बिल्वोदकेन स्नपयामि |

दूर्वोदकं
कांडा᳚त्कांडात्प्र॒रोहं॑ति परु॑षः परुषः॒ परि॑ |
ए॒वानो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ||
श्री भवानीशंकरास्वामिने नमः | दूर्वोदकेन स्नपयामि |

अथ मलापकर्​षण स्नानम्
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्विंद्रः॑ |
अ॒ग्निं-याँ गर्भं॑ दधि॒रे विरू॑पा॒स्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वंतु ||

यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑
सत्यानृ॒ते अ॑व॒पश्यं॒जना॑नाम् |
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वंतु ||

यासां॑ दे॒वा दि॒वि कृ॒ण्वंति॑ भ॒क्षं
या अं॒तरि॑क्षे बहु॒धा भवं॑ति |
याः पृ॑थि॒वीं पय॑सों॒दंति॑ शु॒क्रास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वंतु ||

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑
त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे |
सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒
वर्चो॒ बल॒मोजो॒ निध॑त्त ||

(अ.वे., कांड-3, सूक्तं-13)
यद॒दः सं॑प्रय॒ती-रहा॒-वन॑दता ह॒ते |
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिंधवः || 1
यत्प्रेषि॑ता॒ वरु॑णे॒नताश्शीभ॑ग्ं स॒मव॑ल्गत |
तदा॑प्नो॒दिंद्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑स्थन || 2
आ॒प॒का॒मग्ग्ं स्यंद॑माना॒ अवी॑वरत वो॒ हि क॑म् |
इंद्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् || 3
एको॑ वो दे॒वो अप्य॑तिष्ठ॒थ्स्यंद॑माना यथाव॒शम् |
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते || 4
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आनुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः |
ती॒व्रो रसो॑ मधु॒पृचां॑ अ॒रं॒ग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सागन्न् || 5
आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्म॑ आसाम् |
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्‍हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ || 6

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |
म॒हेरणा॑य॒ चक्ष॑से |
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ |
उ॒श॒तीरि॑व मा॒त॑रः |
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ |
आपो॑ ज॒नय॑था च नः |
श्री भवानीशंकरास्वामिने नमः | शुद्धोदकेन स्नपयामि |

आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑
प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑
स्व॒राडाप॒श्छंदा॒ग्ं॒स्यापो॒ ज्योती॒ग्ं॒ष्यापो॒
यजू॒ग्ं॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ओम् ||

अ॒पः प्रण॑यति | श्र॒द्धावा आपः॑ |
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति |
अ॒पः प्रण॑यति | य॒ज्ञो वा आपः॑ |
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति
अ॒पः प्रण॑यति | व॒ज्रो वा आपः॑ |
वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॒ प्रच॑रति |
अ॒पः प्रण॑यति | आपो॒ वै र॑क्षो॒घ्नीः |
रक्ष॑सा॒मप॑हत्यै |
अ॒पः प्रण॑यति | आपो॒ वै दे॒वानां॑ प्रि॒यंधाम॑ |
दे॒वाना॑मे॒व प्रि॒यंधाम॑ प्र॒णीय॒ प्रच॑रति |
अ॒पः प्रण॑यति | आपो॒ वै सर्वा॑ दे॒वताः॑ |
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति |
(आपो॒ वै शां॒ताः | शां॒ताभि॑रे॒वास्य॑ शुचग्ं॑ शमयति ||)
श्री भवानीशंकरास्वामिने नमः | मलापकर्​षणस्नानं समर्पयामि |

श्रीरुद्रप्रश्नः – नमकम् ||
श्रीरुद्रप्रश्नः – चमकम् ||
पुरुष सूक्तम् ||
श्री सूक्तम् ||

ॐ श्री उमामहेश्वर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि |
स्नानानंतरं आचमनीयं समर्पयामि |

वस्त्रं – (ॐ ज्ये॒ष्ठाय॒ नमः)
नमो नागविभूषाय नारदादि स्तुताय च |
वस्त्रयुग्मं प्रदास्यामि पार्थिवेश्वर स्वीकुरु ||
ॐ श्री उमामहेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि |
(वस्त्रार्थं अक्षतान् समर्पयामि)

यज्ञोपवीतं – (ॐ श्रे॒ष्ठाय॒ नमः)
यज्ञेश यज्ञविध्वंस सर्वदेव नमस्कृत |
यज्ञसूत्रं प्रदास्यामि शोभनं चोत्तरीयकम् ||
ॐ श्री उमामहेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि |
(उपवीतार्थं अक्षतान् समर्पयामि)

आभरणं – (ॐ रु॒द्राय॒ नमः)
नागाभरण विश्वेश चंद्रार्धकृतमस्तक |
पार्थिवेश्वर मद्दत्तं गृहाणाभरणं-विँभो ||
ॐ श्री उमामहेश्वर स्वामिने नमः आभरणं समर्पयामि |

गंधं – (ॐ काला॑य॒ नमः॑)
श्री गंधं ते प्रयच्छामि गृहाण परमेश्वर |
कस्तूरि कुंकुमोपेतं शिवाश्लिष्ट भुजद्वय ||
ॐ श्री उमामहेश्वर स्वामिने नमः श्रीगंधादि परिमल द्रव्यं समर्पयामि |

अक्षतान् – (ॐ कल॑विकरणाय॒ नमः)
अक्षतान् धवलान् दिव्यान् शालि तुंडुल मिश्रितान् |
अक्षतोसि स्वभावेन स्वीकुरुष्व महेश्वर ||
ॐ श्री उमामहेश्वर स्वामिने नमः धवलाक्षतान् समर्पयामि |

पुष्पं – (ॐ बल॑ विकरणाय॒ नमः)
सुगंधीनि सुपुष्पाणि जाजीबिल्वार्क चंपकैः |
निर्मितं पुष्पमालंच नीलकंठ गृहाण भो ||
ॐ श्री उमामहेश्वर स्वामिने नमः पुष्प बिल्वदलानि समर्पयामि |

अथांग पूजा
ॐ महेश्वराय नमः – पादौ पूजयामि |
ॐ ईश्वराय नमः – जंघौ पूजयामि |
ॐ कामरूपाय नमः – जानुनी पूजयामि |
ॐ हराय नमः – ऊरू पूजयामि |
ॐ त्रिपुरांतकाय नमः – गुह्यं पूजयामि |
ॐ भवाय नमः – कटिं पूजयामि |
ॐ-व्याँघ्रचर्मांबरधराय नमः – नाभिं पूजयामि |
ॐ कुक्षिस्थ ब्रहांडाय नमः – उदरं पूजयामि |
ॐ गौरी मनः प्रियाय नमः – हृदयं पूजयामि |
ॐ पिनाकिने नमः – हस्तौ पूजयामि |
ॐ नागावृतभुजदंडाय नमः – भुजौ पूजयामि |
ॐ श्रीकंठाय नमः – कंठं पूजयामि |
ॐ-विँरूपाक्षाय नमः – मुखं पूजयामि |
ॐ त्रिनेत्राय नमः – नेत्राणि पूजयामि |
ॐ रुद्राय नमः – ललाटं पूजयामि |
ॐ शर्वाय नमः – शिरः पूजयामि |
ॐ चंद्रमौलये नमः – मौलिं पूजयामि |
ॐ अर्धनारीश्वराय नमः – तनुं पूजयामि |
ॐ श्री उमामहेश्वराय नमः – सर्वाण्यंगानि पूजयामि |

अष्टोत्तरशतनाम पूजा
ॐ शिवाय नमः
ॐ महेश्वराय नमः
ॐ शंभवे नमः
ॐ पिनाकिने नमः
ॐ शशिशेखराय नमः
ॐ-वाँमदेवाय नमः
ॐ-विँरूपाक्षाय नमः
ॐ कपर्दिने नमः
ॐ नीललोहिताय नमः
ॐ शंकराय नमः (10)

ॐ शूलपाणये नमः
ॐ खट्वांगिने नमः
ॐ-विँष्णुवल्लभाय नमः
ॐ शिपिविष्टाय नमः
ॐ अंबिकानाथाय नमः
ॐ श्रीकंठाय नमः
ॐ भक्तवत्सलाय नमः
ॐ भवाय नमः
ॐ शर्वाय नमः
ॐ त्रिलोकेशाय नमः (20)

ॐ शितिकंठाय नमः
ॐ शिवाप्रियाय नमः
ॐ उग्राय नमः
ॐ कपालिने नमः
ॐ कामारये नमः
ॐ अंधकासुर सूदनाय नमः
ॐ गंगाधराय नमः
ॐ-लँलाटाक्षाय नमः
ॐ कालकालाय नमः
ॐ कृपानिधये नमः (30)

ॐ भीमाय नमः
ॐ परशुहस्ताय नमः
ॐ मृगपाणये नमः
ॐ जटाधराय नमः
ॐ कैलासवासिने नमः
ॐ कवचिने नमः
ॐ कठोराय नमः
ॐ त्रिपुरांतकाय नमः
ॐ-वृँषांकाय नमः
ॐ-वृँषभारूढाय नमः (40)

ॐ भस्मोद्धूलित विग्रहाय नमः
ॐ सामप्रियाय नमः
ॐ स्वरमयाय नमः
ॐ त्रयीमूर्तये नमः
ॐ अनीश्वराय नमः
ॐ सर्वज्ञाय नमः
ॐ परमात्मने नमः
ॐ सोमसूर्याग्नि लोचनाय नमः
ॐ हविषे नमः
ॐ-यँज्ञमयाय नमः (50)

ॐ सोमाय नमः
ॐ पंचवक्त्राय नमः
ॐ सदाशिवाय नमः
ॐ-विँश्वेश्वराय नमः
ॐ-वीँरभद्राय नमः
ॐ गणनाथाय नमः
ॐ प्रजापतये नमः
ॐ हिरण्यरेतसे नमः
ॐ दुर्धर्​षाय नमः
ॐ गिरीशाय नमः (60)

ॐ गिरिशाय नमः
ॐ अनघाय नमः
ॐ भुजंग भूषणाय नमः
ॐ भर्गाय नमः
ॐ गिरिधन्वने नमः
ॐ गिरिप्रियाय नमः
ॐ कृत्तिवाससे नमः
ॐ पुरारातये नमः
ॐ भगवते नमः
ॐ प्रमथाधिपाय नमः (70)

ॐ मृत्युंजयाय नमः
ॐ सूक्ष्मतनवे नमः
ॐ जगद्व्यापिने नमः
ॐ जगद्गुरवे नमः
ॐ-व्योँमकेशाय नमः
ॐ महासेन जनकाय नमः
ॐ चारुविक्रमाय नमः
ॐ रुद्राय नमः
ॐ भूतपतये नमः
ॐ स्थाणवे नमः (80)

ॐ अहिर्बुध्न्याय नमः
ॐ दिगंबराय नमः
ॐ अष्टमूर्तये नमः
ॐ अनेकात्मने नमः
ॐ सात्त्विकाय नमः
ॐ शुद्धविग्रहाय नमः
ॐ शाश्वताय नमः
ॐ खंडपरशवे नमः
ॐ अजाय नमः
ॐ पाशविमोचकाय नमः (90)

ॐ मृडाय नमः
ॐ पशुपतये नमः
ॐ देवाय नमः
ॐ महादेवाय नमः
ॐ अव्ययाय नमः
ॐ हरये नमः
ॐ पूषदंतभिदे नमः
ॐ अव्यग्राय नमः
ॐ दक्षाध्वरहराय नमः
ॐ हराय नमः (100)

ॐ भगनेत्रभिदे नमः
ॐ अव्यक्ताय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपादे नमः
ॐ अपवर्गप्रदाय नमः
ॐ अनंताय नमः
ॐ तारकाय नमः
ॐ परमेश्वराय नमः (108)

ॐ निध॑नपतये॒ नमः | ॐ निध॑नपतांतिकाय॒ नमः |
ॐ ऊर्ध्वाय॒ नमः | ॐ ऊर्ध्वलिंगाय॒ नमः |
ॐ हिरण्याय॒ नमः | ॐ हिरण्यलिंगाय॒ नमः |
ॐ सुवर्णाय॒ नमः | ॐ सुवर्णलिंगाय॒ नमः |
ॐ दिव्याय॒ नमः | ॐ दिव्यलिंगाय॒ नमः |
ॐ भवाय॒ नमः | ॐ भवलिंगाय॒ नमः |
ॐ शर्वाय॒ नमः | ॐ शर्वलिंगाय॒ नमः |
ॐ शिवाय॒ नमः | ॐ शिवलिंगाय॒ नमः |
ॐ ज्वलाय॒ नमः | ॐ ज्वललिंगाय॒ नमः |
ॐ आत्माय॒ नमः | ॐ आत्मलिंगाय॒ नमः |
ॐ परमाय॒ नमः | ॐ परमलिंगाय॒ नमः |

ॐ भ॒वाय॑ दे॒वाय॒ नमः
– ॐ भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ |
ॐ श॒र्वाय॑ दे॒वाय॒ नमः
– ॐ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ |
ॐ ईशा॑नाय दे॒वाय॒ नमः
– ॐ ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नमः॑ |
ॐ पशु॒पत॑ये दे॒वाय॒ नमः
– ॐ पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नमः॑ |
ॐ रु॒द्राय॑ दे॒वाय॒ नमः
– ॐ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ |
ॐ उ॒ग्राय॑ दे॒वाय॒ नमः
– ॐ उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ |
ॐ भी॒माय॑ दे॒वाय॒ नमः
– ॐ भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ |
ॐ मह॑ते दे॒वाय॒ नमः
– ॐ मह॑तो दे॒वस्य॒ पत्न्यै॒ नमः॑ |

ॐ श्री उमामहेश्वर स्वामिने नमः नाना विध परिमल पत्र पुष्पाक्षतान् समर्पयामि |

धूपं – (ॐ बला॑य॒ नमः)
धूर॑सि॒ धूर्व॒ धूर्वं॑तं॒ धूर्व॒तं-योँ᳚ऽस्मान् धूर्व॑ति॒ तं धू᳚र्व॒यं-वँ॒यं
धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒-वँह्नि॑तमं
देव॒हूत॑म॒-मह्रु॑तमसि हवि॒र्धानं॒ दृग्ं ह॑स्व॒ माह्वा᳚ र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒
प्रेक्षे॒ मा भेर्मा सं​विँ॑क्ता॒ मा त्वा॑ हिग्ंसिषम् |
आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः | धूपमाघ्रापयामि |

दीपं – (ॐ बल॑ प्रमथनाय॒ नमः)
उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन् नि​ऋ॑तिं॒ मम॑ | प॒शुग्ग्​श्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश | मानो॑ हिग्ंसी-ज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् | अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय |
आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः | धूपमाघ्रापयामि |
धूप दीपानंतरं शुद्धाचमनीयं समर्पयामि |

नैवेद्यं – (ॐ सर्व॑ भूत दमनाय॒ नमः)
ॐ भूर्भुव॒स्सुवः॒ | तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि |
धि॒यो यो नः॑ प्रचो॒दया᳚त् | देव सवितः प्रसुवः |
सत्यं त्वर्तेन परिषिंचामि |
(सायंकाले – ऋतं त्वा सत्येन परिषिंचामि)

अमृतं अस्तु | अमृतोपस्तरणमसि |
ॐ प्राणाय स्वाहाः | ॐ अपानाय स्वाहाः |
ॐ-व्याँनाय स्वाहाः | ॐ उदानाय स्वाहाः |
ॐ समानाय स्वाहाः | ॐ ब्रह्मणे स्वाहाः |
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरंति॒ सिंध॑वः |
माद्ध्वी᳚र्नः सं॒त्वोष॑धीः | मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त् पार्थि॑व॒ग्ं॒ रजः॑ |
मधु॒द्यौर॑स्तु नः पि॒ता | मधु॑मान्नो॒ वन॒स्पति॒ र्मधु॑माग्ं अस्तु॒ सूर्यः॑ |
माध्वी॒र्गावो॑ भवंतु नः || मधु मधु मधु ||
आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः |
(दिव्यान्नं, घृतगुलपायसं, नालिकेरखंडद्वयं, कदलीफलं …)
ॐ श्री उमामहेश्वर स्वामिने नमः | महानैवेद्यं निवेदयामि |

मध्ये मध्ये पानीयं समर्पयामि |
अ॒मृ॒ता॒पि॒धा॒नम॑सि | उत्तरापोशनं समर्पयामि |
हस्तौ प्रक्षालयामि | पादौ प्रक्षालयामि |
शुद्धाचमनीयं समर्पयामि |

तांबूलं – (ॐ म॒नोन्म॑नाय॒ नमः)
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् |
कर्पूरचूर्ण सं​युँक्तं तांबूलं प्रतिगृह्यताम् |
आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः | तांबूलं निवेदयामि |
तांबूल चर्वणानंतरं शुद्ध आचमनीयं समर्पयामि |

नीराजनं
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते | यो राजा॒सन् रा॒ज्यो वा॒ सोमे॑न॒
यज॑ते | दे॒व॒ सु॒वामे॒तानि॑ ह॒विग्ंषि॑ भवंति |
ए॒तावं॑तो॒ वै दे॒वानाग्ं॑ स॒वाः | त ए॒वास्मै॑ स॒वान् प्र॑यच्छंति |
त ए॑नं पु॒नः सुवं॑ते रा॒ज्याय॑ | दे॒व॒सू राजा॑ भवति |

रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ | नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे |
स मे॒ कामा॒न् काम॒कामा॑य॒ मह्य᳚म् | का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु |
कु॒बे॒राय॑ वैश्रव॒णाय॑ | म॒हा॒रा॒जाय॒ नमः॑ |

अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः |
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ||

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि |
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ||

ईशानः सर्व॑विद्या॒ना॒-मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒ र्ब्रह्म॒णोऽधि॑पति॒ र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशिवोम् ||

नीराजनमिदं देव कर्पूरामोद सं​युँतम् |
गृहाण परमानंद हेरंब वरदायक ||

आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः | कर्पूर नीराजनं दर्​शयामि |
नीराजनानंतरं शुद्ध आचमनीयं समर्पयामि |

मंत्रपुष्पं

आत्मरक्षा
ब्रह्मा᳚त्म॒न् वद॑सृजत | तद॑कामयत | समा॒त्मना॑ पद्ये॒येति॑ |
आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत | तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् |
स दश॑हूतोऽभवत् | दश॑हूतो ह॒वै नामै॒षः | तं-वाँ ए॒तं दश॑हूत॒ग्ं॒ संत᳚म् |
दश॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण | प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः || 1

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत | तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् |
स स॒प्तहू॑तोऽभवत् | स॒प्तहू॑तो ह॒वै नामै॒षः | तं-वाँ ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ संत᳚म् | स॒प्तहो॒तेत्या च॑क्षते प॒रोक्षे॑ण | प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः || 2

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत | तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् |
स षड्ढू॑तोऽभवत् | षड्ढू॑तो ह॒वै नामै॒षः | तं-वाँ ए॒तग्ं षड्ढू॑त॒ग्ं॒ संत᳚म् |
षड्ढो॒तेत्या च॑क्षते प॒रोक्षे॑ण | प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः || 3

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत | तस्मै॑ पंच॒मग्ं हू॒तः प्रत्य॑शृणोत् |
स पंच॑हूतोऽभवत् | पंच॑हूतो ह॒वै नामै॒षः | तं-वाँ ए॒तं पंच॑हूत॒ग्ं॒ संत᳚म् | पंच॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण | प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः || 4

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत | तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् |
स चतु॑र्​हूतोऽभवत् | चतु॑र्​हूतो ह॒वै नामै॒षः | तं-वाँ ए॒तं चतु॑र्​हूत॒ग्ं॒
संत᳚म् | चतु॑र्​हो॒तेत्या च॑क्षते प॒रोक्षे॑ण | प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः || 5

तम॑ब्रवीत् | त्वं-वैँ मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः |
त्वयै॑ नानाख्या॒तार॒ इति॑ | तस्मा॒न्नुहै॑ना॒ग्ग्॒-श्च॑तु र्​होतार॒ इत्याच॑क्षते |
तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः | नेदि॑ष्ठो॒ हृद्य॑तमः |
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति | य ए॒वं-वेँद॑ || 6 (आत्मने॒ नमः॑)

ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि |
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ||
ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि |
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ||

यो॑ऽपां पुष्पं॒-वेँद॑ | पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति |
चं॒द्रमा॒ वा अ॒पां पुष्प᳚म् | पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति |

ॐ᳚ तद्ब्र॒ह्म | ॐ᳚ तद्वा॒युः | ॐ᳚ तदा॒त्मा | ॐ᳚ तथ्स॒त्यम् |
ॐ᳚ तथ्सर्व᳚म् | ॐ᳚ तत्पुरो॒र्नमः |

अंतश्चरति॑ भूते॒षु॒ गुहायां-विँ॑श्वमू॒र्तिषु | त्वं-यँज्ञस्त्वं-वँषट्कार स्त्वमिंद्रस्त्वग्ं रुद्रस्त्वं-विँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः |
त्वं त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् |

चतुर्वेद पारायणं
ॐ श्री भवानीशंकर स्वामिने नमः ||
ऋग्वेदप्रियः || ऋग्वेदमवधारय ||
ह॒रिः॒ ओम् || अ॒ग्निमी᳚ले पु॒रोहि॑तं-यँ॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् | होता᳚रं रत्न॒ धात॑मम् |
हरिः॑ ओम् ||

ॐ श्री भवानीशंकर स्वामिने नमः ||
यजुर्वेदप्रियः || यजुर्वेदमवधारय ||
ह॒रिः॒ ओम् || इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒ग-मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा मा वः॑ स्ते॒न ई॑शत॒ माऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वी-र्यज॑मानस्य प॒शून् पा॑हि ||
हरिः॑ ओम् ||

ॐ श्री भवानीशंकर स्वामिने नमः ||
सामवेदप्रियः || सामवेदमवधारय ||
ह॒रिः॒ ओम् || अग्न॒ आया᳚हि वी॒तये᳚ गृणा॒नो ह॒व्य दा᳚तये |
निहोता᳚ सथ्सि ब॒र्​हिषि॑ |
हरिः॑ ओम् ||

ॐ श्री भवानीशंकर स्वामिने नमः ||
अथर्ववेदप्रियः || अथर्ववेदमवधारय ||
ह॒रिः॒ ओम् || शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये᳚ | शं​योँर॒भिस्र॑वंतु नः ||
हरिः॑ ओम् ||

ॐ श्री भवानीशंकर स्वामिने नमः ||
उपनिषद्प्रियः || उपनिषदवधारय ||
ह॒रिः॒ ओम् || अ॒हमन्न-म॒हमन्न-म॒हमन्नम् | अ॒हमन्ना॒दो(3)ऽ॒हमन्ना॒दो(3)ऽ॒हमन्ना॒दः | अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् | अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ | पूर्वं देवेभ्यो अमृतस्य ना(3) भा॒यि॒ | यो मा ददाति स इदेव मा(3) वाः॒ | अ॒हमन्न॒-मन्न॑-म॒दंत॒मा(3) द्मि॒ | अहं॒-विँश्वं॒ भुव॑न॒-मभ्य॑भ॒वाम् | सुव॒र्न ज्योतीः᳚ | य ए॒वं-वेँद॑ | इत्यु॑प॒निष॑त् ||

आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः |
पादारविंदयोः दिव्य सुवर्ण मंत्र पुष्पांजलिं समर्पयामि |

प्रदक्षिणं
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ||

पदे पदे सर्वतमो निकृंतनं
पदे पदे सर्व शुभप्रदायकम् |
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युंजय रक्ष रक्ष माम् ||
ॐ श्री उमामहेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि |

प्रार्थना
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽंबिकापतय उमापतये पशुपतये॑ नमो॒ नमः ||

अथ तर्पणं
भवं देवं तर्पयामि
– भवस्य देवस्य पत्नीं तर्पयामि |
शर्वं देवं तर्पयामि
– शर्वस्य देवस्य पत्नीं तर्पयामि |
ईशानं देवं तर्पयामि
– ईशानस्य देवस्य पत्नीं तर्पयामि |
पशुपतिं देवं तर्पयामि
– पशुपतेर्देवस्य पत्नीं तर्पयामि |
रुद्रं देवं तर्पयामि
– रुद्रस्य देवस्य पत्नीं तर्पयामि |
उग्रं देवं तर्पयामि
– उग्रस्य देवस्य पत्नीं तर्पयामि |
भीमं देवं तर्पयामि
– भीमस्य देवस्य पत्नीं तर्पयामि |
महांतं देवं तर्पयामि
– महतो देवस्य पत्नीं तर्पयामि |

इति तर्पयित्वा अघोरादिभिस्त्रिभिर्मंत्रैः घोर तनूरुपतिष्ठते |

ॐ अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः |
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ||
ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि |
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ||
ईशानस्स॑र्वविद्या॒ना॒मीश्वरस्सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ||

इति ध्यात्वा रुद्रगायत्रीं-यँथा शक्ति जपेत् |

ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि |
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ||

इति जपित्वा अथैनमाशिषमाशास्ते |

(तै.ब्रा.3-5-10-4)
आशा᳚स्ते॒ऽयं-यँज॑मानो॒ऽसौ | आयु॒राशा᳚स्ते |
सु॒प्र॒जा॒स्त्वमाशा᳚स्ते | स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते |
उत्त॑रां देवय॒ज्यामाशा᳚स्ते | भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते |
दि॒व्यं धामाशा᳚स्ते | विश्वं॑ प्रि॒यमाशा᳚स्ते |
यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते | तद॑स्या॒त्त॒दृ॑ध्यात् |
तद॑स्मै दे॒वा रा॑संताम् | तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते |
व॒यम॒ग्नेर्मानु॑षाः | इ॒ष्टं च॑ वी॒तं च॑ |
उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑सः स्पाताम् |
इ॒ह गति॑र्वा॒मस्ये॒दं च॑ | नमो॑ दे॒वेभ्यः॑ ||

उपचारपूजाः
पुनः पूजां करिष्ये | छत्रमाच्छादयामि |
चामरैर्वीजयामि | नृत्यं दर्​शयामि |
गीतं श्रावयामि | आंदोलिकानारोहयामि |
अश्वानारोहयामि | गजानारोहयामि |
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मंत्रोपचार पूजास्समर्पयामि ||

लिंगाष्टकम् ||
बिल्वाष्टकम् ||

क्षमाप्रार्थन
करचरणकृतं-वाँक्कायजं कर्मजं-वाँ
श्रवणनयनजं-वाँ मानसं-वाँऽपराधम् |
विहितमविहितं-वाँ सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्रीमहादेव शंभो || 18 ||

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु |
न्यूनं संपूर्णतां-याँति सद्योवंदे महेश्वरम् ||
मंत्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर |
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ||

अनया सद्योजात विधिना ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री उमामहेश्वरस्वामी सुप्रीतः सुप्रसन्नो वरदो भवतु |
एतत्फलं श्री परमेश्वरार्पणमस्तु ||
उत्तरतश्चंडीश्वराय नमः निर्माल्यं-विँसृज्य ||

तीर्थं
अकालमृत्युहरणं सर्वव्याधि निवारणम् |
समस्तपापक्षयकरं शिवपादोदकं पावनं शुभम् ||
इति त्रिवारं पीत्वा शिव निर्माल्य रूप बिल्वदलं-वाँ दक्षिणे कर्णे धारयेत् |

ॐ शांतिः शांतिः शांतिः ||

📜 Request Stotra

🙏 If this content helped you today

Your contribution helps maintain and sustain this website. It allows us to continue sharing sacred stotras in a peaceful and accessible space.

🪔 Contribute 🙏
Powered by Razorpay

Join MantraSamhita Community on WhatsApp & Facebook

Get latest Hindu texts, spiritual updates, and exclusive content directly to you.

Join WhatsApp Follow Facebook
🙏 Your voluntary support keeps this platform ad-free.
Contribute
Powered by Razorpay
error: Content is protected !!