|| ॐ श्री गणेशाय नमः ||
गणपति स्तुतिः
हरिः॑ ॐ
ग॒णानां᳚ त्वा ग॒णप्॑अतिं हवामहे क॒विं क्॑अवी॒नाम्॑उप॒मश्र्॑अवस्तमम् |
ज्ये॒ष्ठ॒राजं॒ ब्रह्म्॑अणां ब्रह्मणस्पत॒ आ नः॑ शऋ॒ण्वन्नू॒तिभिः॑ सीद॒ साद्॑अनम् || 2.23.01 ||
(ऋषिः गृत्समदः, देवता ब्रह्मणस्पतिः, छंदः जगती, स्वरः निषादः)
निषुस्᳚ईद गणपते ग॒णेषु॒ त्वाम्᳚आहु॒र्विप्र्॑अतमं कवी॒नाम् |
न ऋ॒ते तवत्क्र्॑इयते॒ किं च॒नारे म॒हाम॒र्कं म्॑अघवंचि॒त्रम्॑अर्च || 10.112.09 ||
(नभःप्रभेदनो वैरुपः, इंद्रः, निचृत्त्रिष्टुप्, धैवतः)
आ तू न्॑अ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं ग्ऱ्॑उभाय | म॒हा॒ह॒स्ती दक्ष्॑इणेन || 08.81.01 ||
(कुसीदी काण्वः, इंद्रः, गायत्री, षड्जः)
ॐ श्री महागणपतये॒ नमः॑ ||
अथ पंचरुद्रं प्रारंभः
(प्रथममंडले त्रिचत्वारिंशं सूक्तं 1.43
ऋषिः कण्वो घौरः |
देवता 1, 2, 4-6 रुद्रः, 3 मित्रावरुणौ; 7-9 सोमः |
छंदः 1-4, 7, 8 गायत्री, 5 विराड्गायत्री, 6 पादनिचृद्गायत्री, 9 अनुष्टुप् |
स्वरः 1-8 षड्जः, 9 गांधारः ||)
हरिः॑ ॐ
कद्रु॒द्राय॒ प्रच्᳚एतसे मी॒ल्हुष्ट्॑अमाय॒ तव्य्॑असे | वो॒चेम॒ शंत्॑अमं हृ॒दे || 1.043.01 ||
यथ्᳚आ नो अद्॑इतिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गव्᳚ए | यथ्᳚आ तो॒काय्॑अ रु॒द्रिय्᳚अम् || 1.043.02 ||
यथ्᳚आ नो मि॒त्रो वर्॑उणो॒ यथ्᳚आ रु॒द्रश्चिक्᳚एतति | यथा॒ विश्व्᳚ए स॒जोष्॑असः || 1.043.03 ||
गा॒थप्॑अतिं मे॒धप्॑अतिं रु॒द्रं जल्᳚आषभेषजम् | तच्छं॒योः सु॒म्नम्᳚ईमहे || 1.043.04 ||
यः शु॒क्र ॑इव॒ सूर्यो॒ हिर्᳚अण्यमिव॒ रोच्॑अते | श्रेष्ठ्᳚ओ दे॒वानां॒ वसुः॑ || 1.043.05 ||
शं नः॑ कर॒त्यर्व्॑अते सु॒गं मे॒षाय्॑अ मे॒ष्य्᳚ए | नृभ्यो॒ नार्॑इभ्यो॒ गव्᳚ए || 1.043.06 ||
अ॒स्मे स्᳚ओम॒ श्रिय॒मधि॒ नि ध्᳚एहि श॒तस्य्॑अ नृ॒णाम् | महि॒ श्रव्॑अस्तुविनृ॒म्णम् || 1.043.07 ||
मा नः॑ सोमपरि॒बाधो॒ मार्᳚आतयो जुहुरंत | आ न्॑अ इंदो॒ वाज्᳚ए भज || 1.043.08 ||
यास्त्᳚ए प्र॒जा अ॒मृत्॑अस्य॒ पर्॑अस्मिं॒धाम्᳚अन्नृ॒तस्य्॑अ |
मू॒र्धा नाभ्᳚आ सोम वेन आ॒भूष्᳚अंतीः सोम वेदः || 1.043.09 ||
(प्रथम मंडले चतुर्दशोत्तरशततं सूक्तम्
ऋषिः – कुत्स आंगिरसः | देवता रुद्रः |
छंदः 1 जगती, 2, 7 निचृज्जगती, 3, 6, 8, 9 विराड्जगती,
4, 5, 11 भुरिक्त्रिष्टुप्, 10 निचृत्त्रिष्टुप् |
स्वरः 1-3, 6-9 निषादः, 4, 5, 10, 11 धैवतः ||)
इ॒मा रु॒द्राय्॑अ त॒वस्᳚ए कप॒र्दिन्᳚ए क्ष॒यद्व्᳚ईराय॒ प्र भ्॑अरामहे म॒तीः |
यथा॒ शमस्॑अद्द्वि॒पदे॒ चत्॑उष्पदे॒ विश्वं᳚ पु॒ष्टं ग्राम्᳚ए अ॒स्मिन्न्॑अनातु॒रम् || 1.114.01 ||
मृ॒ला न्᳚ओ रुद्रो॒त नो॒ मय्॑अस्कृधि क्ष॒यद्व्᳚ईराय॒ नम्॑असा विधेम ते |
यच्छं च॒ योश्च॒ मन्॑उराये॒जे पि॒ता तद्॑अश्याम॒ तव्॑अ रुद्र॒ प्रण्᳚ईतिषु || 1.114.02 ||
अ॒श्याम्॑अ ते सुम॒तिं द्᳚एवय॒ज्यय्᳚आ क्ष॒यद्व्᳚ईरस्य॒ तव्॑अ रुद्र मीढ्वः |
सु॒म्ना॒यन्निद्विश्᳚ओ अ॒स्माक॒मा च॒रार्॑इष्टवीरा जुहवाम ते ह॒विः || 1.114.03 ||
त्वे॒षं-वँ॒यं रु॒द्रं-य्॑अँज्ञ॒साधं᳚-वँं॒कुं क॒विमव्॑असे॒ नि ह्व्॑अयामहे |
आ॒रे अ॒स्मद्दैव्यं॒ हेल्᳚ओ अस्यतु सुम॒तिमिद्व॒यम॒स्या व्ऱ्॑उणीमहे || 1.114.04 ||
दि॒वो व्॑अरा॒हम्॑अरु॒षं क्॑अप॒र्दिनं᳚ त्वे॒षं रू॒पं नम्॑असा॒ नि ह्व्॑अयामहे |
हस्ते॒ बिभ्र्॑अद्भेष॒जा वार्य्᳚आणि॒ शर्म॒ वर्म्॑अ च्छ॒र्दिर॒स्मभ्यं᳚-यंँसत् || 1.114.05 ||
इ॒दं पि॒त्रे म॒रुत्᳚आमुच्यते॒ वचः॑ स्वा॒दोः स्वाद्᳚ईयो रु॒द्राय॒ वर्ध्॑अनम् |
रास्व्᳚आ च नो अमृत मर्त॒भोज्॑अनं॒ त्मन्᳚ए तो॒काय॒ तन्॑अयाय मृल || 1.114.06 ||
मान्᳚ओ म॒हांत्॑अमु॒त मान्᳚ओ अर्भ॒कं मा न॒ उक्ष्᳚अंतमु॒त मा न्॑अ उक्षि॒तम् |
मान्᳚ओ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्व्᳚ओ रुद्र रीरिषः || 1.114.07 ||
मा न्॑अस्तो॒के तन्॑अये॒ मा न्॑अ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्व्᳚एषु रीरिषः |
वी॒रान्मा न्᳚ओ रुद्र भामि॒तो व्॑अधीर्ह॒विष्म्᳚अंतः॒ सद॒मित्त्व्᳚आ हवामहे || 1.114.08 ||
उप्॑अते॒ स्तोम्᳚आन्पशु॒पा इ॒वाक्॑अरं॒ रास्व्᳚आ पितर्मरुतां सु॒म्नम॒स्मे |
भ॒द्रा हित्᳚ए सुम॒तिर्म्ऱ्॑उल॒यत्त॒माथ्᳚आ व॒यमव॒ इत्त्᳚ए वृणीमहे || 1.114.09 ||
आ॒रे त्᳚ए गो॒घ्नमु॒त प्᳚ऊरुष॒घ्नं क्षय्॑अद्वीर सु॒म्नम॒स्मे त्᳚ए अस्तु |
मृ॒ला च्॑अ नो॒ अध्॑इ च ब्रूहि दे॒वाध्᳚आ च नः॒ शर्म्॑अ यच्छ द्वि॒बर्हाः᳚ || 1.114.10 ||
अव्᳚ओचाम॒ नम्᳚ओ अस्मा अव॒स्यवः॑ शृ॒णोत्॑उ नो॒ हवं᳚ रु॒द्रो म॒रुत्व्᳚आन् |
तन्न्᳚ओ मि॒त्रो वर्॑उणो मामहंता॒मद्॑इतिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः || 1.114.11 ||
(द्वितीयमंडले त्रयस्त्रिंशं सूक्तम्
ऋषिः गृत्समदः | देवता रुद्रः |
छंदः 1, 5, 9, 13-15 निचृत्त्रिष्टुप्, 3, 6, 10, 11, विराट्त्रिष्टुप्,
4, 8 त्रिष्टुप्, 2, 7 पंक्तिः, 12 भुरिक्पंक्तिः |
स्वरः 1, 3-6, 8-11, 13-15 धैवतः, 2, 7, 12 पंचमः ||)
आत्᳚ए पितर्मरुतां सु॒म्नम्᳚एतु॒ मा नः॒ सूर्य्॑अस्य सं॒दृश्᳚ओ युयोथाः |
अ॒भि न्᳚ओ वी॒रो अर्व्॑अति क्षमेत॒ प्र ज्᳚आयेमहि रुद्र प्र॒जाभिः॑ || 2.033.01 ||
त्वाद्॑अत्तेभी रुद्र॒ शंत्॑अमेभिः श॒तं हिम्᳚आ अशीय भेष॒जेभिः॑ |
व्य(1)स्मद्द्वेष्᳚ओ वित॒रं-व्यंँहो॒ व्यम्᳚ईवाश्चातयस्वा॒ विष्᳚ऊचीः || 2.033.02 ||
श्रेष्ठ्᳚ओ जा॒तस्य्॑अ रुद्र श्रि॒यास्॑इ त॒वस्त्॑अमस्त॒वसां᳚-वँज्रबाहो |
पर्ष्॑इ णः पा॒रमंह्॑असः स्व॒स्ति विश्व्᳚आ अ॒भ्᳚ईती॒ रप्॑असो युयोधि || 2.033.03 ||
मात्व्᳚आ रुद्र चुक्रुधामा॒ नम्᳚ओभि॒र्मा दुष्ट्॑उती वृषभ॒ मा सह्᳚ऊती |
उन्न्᳚ओ वी॒राँ ॑अर्पय भेष॒जेभ्॑इर्भि॒षक्त्॑अमं त्वा भि॒षजां᳚ शृणोमि || 2.033.04 ||
हव्᳚ईमभि॒र्हव्॑अते॒ यो ह॒विर्भि॒रव॒ स्तोम्᳚एभी रु॒द्रं द्॑इषीय |
ऋ॒दू॒दरः॑ सु॒हवो॒ मा न्᳚ओ अ॒स्यै ब॒भ्रुः सु॒शिप्र्᳚ओ रीरधन्म॒नाय᳚इ || 2.033.05 ||
उन्म्᳚आ ममंद वृष॒भो म॒रुत्वां॒त्वक्ष्᳚ईयसा॒ वय्॑असा॒ नाध्॑अमानम् |
घृण्᳚ईव च्छा॒याम्॑अर॒पा ॑अशी॒या व्॑इवासेयं रु॒द्रस्य्॑अ सु॒म्नम् || 2.033.06 ||
क्व(1) स्य त्᳚ए रुद्र मृल॒याकु॒र्हस्तो॒ यो अस्त्॑इ भेष॒जो जल्᳚आषः |
अ॒प॒भ॒र्ता रप्॑असो॒ दैव्य्॑अस्या॒भी नु म्᳚आ वृषभ चक्षमीथाः || 2.033.07 ||
प्र ब॒भ्रव्᳚ए वृष॒भाय्॑अ श्विती॒चे म॒हो म॒हीं स्॑उष्टु॒तिम्᳚ईरयामि |
न॒म॒स्या क्॑अल्मली॒किनं॒ नम्᳚ओभिर्गृणी॒मस्॑इ त्वे॒षं रु॒द्रस्य॒ नाम्॑अ || 2.033.08 ||
स्थि॒रेभि॒रंगैः᳚ पुरु॒रूप्॑अ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर्᳚अण्यैः |
ईश्᳚आनाद॒स्य भुव्॑अनस्य॒ भूरे॒र्न वा ॑उ योषद्रु॒द्राद्॑असु॒र्य्᳚अम् || 2.033.09 ||
अर्ह्᳚अन्बिभर्षि॒ साय्॑अकानि॒ धन्वार्ह्᳚अन्नि॒ष्कं-य्॑अँज॒तं-विँ॒श्वर्᳚ऊपम् |
अर्ह्᳚अन्नि॒दं द्॑अयसे॒ विश्व॒मभ्वं॒ न वा ओज्᳚ईयो रुद्र॒ त्वद्॑अस्ति || 2.033.10 ||
स्तु॒हि श्रु॒तं ग्॑अर्त॒सदं॒ युव्᳚आनं मृ॒गं न भी॒मम्॑उपह॒त्नुमु॒ग्रम् |
मृ॒ला ज्॑अरि॒त्रे र्॑उद्र॒ स्तव्᳚आनो॒ऽन्यं त्᳚ए अ॒स्मन्नि व्॑अपंतु॒ सेनाः᳚ || 2.033.11 ||
कु॒मा॒रश्च्॑इत्पि॒तरं॒ वंद्॑अमानं॒ प्रत्॑इ नानाम रुद्रोप॒यंत्᳚अम् |
भूर्᳚एर्दा॒तारं॒ सत्प्॑अतिं गृणीषे स्तु॒तस्त्वं भ्᳚एष॒जा र्᳚आस्य॒स्मे || 2.033.12 ||
याव्᳚ओ भेष॒जा म्॑अरुतः॒ शुच्᳚ईनि॒ या शंत्॑अमा वृषणो॒ या म्॑अयो॒भु |
यानि॒ मनु॒रव्ऱ्॑उणीता पि॒ता न॒स्ता शं च॒ योश्च्॑अ रु॒द्रस्य्॑अ वश्मि || 2.033.13 ||
पर्॑इ णो हे॒ती रु॒द्रस्य्॑अ वृज्याः॒ पर्॑इ त्वे॒षस्य्॑अ दुर्म॒तिर्म॒ही ग्᳚आत् |
अव्॑अ स्थि॒रा म॒घव्॑अद्भ्यस्तनुष्व॒ मीढ्व्॑अस्तो॒काय॒ तन्॑अयाय मृल || 2.033.14 ||
ए॒वा ब्॑अभ्रो वृषभ चेकितान॒ यथ्᳚आ देव॒ न ह्ऱ्॑उणी॒षे न हंस्॑इ |
ह॒व॒न॒श्रुन्न्᳚ओ रुद्रे॒ह ब्᳚ओधि बृ॒हद्व्॑अदेम वि॒दथ्᳚ए सु॒वीराः᳚ || 2.033.15 ||
(षष्ठमंडले चतुःसप्ततितमं सूक्तम्
ऋषिः भरद्वाजो बार्हस्पत्यः | देवता सोमारुद्रौ |
छंदः 1, 2, 4 त्रिष्टुप्, 3 निचृत्त्रिष्टुप्, स्वरः धैवतः ||)
सोम्᳚आरुद्रा धा॒रय्᳚एथामसु॒र्यं(1) प्र व्᳚आमि॒ष्टयोऽर्॑अमश्नुवंतु |
दम्᳚एदमे स॒प्त रत्ना॒ दध्᳚आना॒ शं न्᳚ओ भूतं द्वि॒पदे॒ शं चत्॑उष्पदे || 6.074.01 ||
सोम्᳚आरुद्रा॒ वि व्ऱ्॑उहतं॒ विष्᳚ऊची॒मम्᳚ईवा॒ या नो॒ गय्॑अमावि॒वेश्॑अ |
आ॒रे ब्᳚आधेथां॒ निर्ऱ्॑उतिं परा॒चैर॒स्मे भ॒द्रा स᳚उश्रव॒सान्॑इ संतु || 6.074.02 ||
सोम्᳚आरुद्रा यु॒वमे॒तान्य॒स्मे विश्व्᳚आ त॒नूष्॑उ भेष॒जान्॑इ धत्तम् |
अव्॑अ स्यतं मुं॒चतं॒ यन्नो॒ अस्त्॑इ त॒नूष्॑उ ब॒द्धं कृ॒तमेन्᳚ओ अ॒स्मत् || 6.074.03 ||
ति॒ग्माय्॑उधौ ति॒ग्मह्᳚एती सु॒शेवौ॒ सोम्᳚आरुद्रावि॒ह सु म्ऱ्॑उलतं नः |
प्रन्᳚ओ मुंचतं॒ वर्॑उणस्य॒ पाश्᳚आद्गोपा॒यतं᳚ नः सुमन॒स्यम्᳚आना || 6.074.04 ||
(सप्तममंडले षट्चत्वारिंशं सूक्तम्
ऋषिः वसिष्ठः | देवता रुद्रः |
छंदः 1 विराड्जगती, 2 निचृत्त्रिष्टुप्, 3 निचृत् जगती, 4 स्वराट्पंक्तिः |
स्वरः 1, 3, निषदः, 2 धैवतः, 4 पंचमः ||)
इ॒मा रु॒द्राय्॑अ स्थि॒रध्᳚अन्वने॒ गिरः॑ क्षि॒प्रेष्॑अवे दे॒वाय्॑अ स्व॒धाव्न्᳚ए |
अष्᳚आल्हाय॒ सह्॑अमानाय वे॒धस्᳚ए ति॒ग्माय्॑उधाय भरता शृ॒णोत्॑उ नः || 7.046.01 ||
स हि क्षय्᳚एण॒ क्षम्य्॑अस्य॒ जन्म्॑अनः॒ साम्र्᳚आज्येन दि॒व्यस्य॒ चेत्॑अति |
अव॒न्नव्᳚अंती॒रुप्॑अ नो॒ दुर्॑अश्चरानमी॒वो र्॑उद्र॒ जास्॑उ नो भव || 7.046.02 ||
यात्᳚ए दि॒द्युदव्॑असृष्टा दि॒वस्पर्॑इ क्ष्म॒या चर्॑अति॒ परि॒ सा व्ऱ्॑उणक्तु नः |
स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न्॑अस्तो॒केषु॒ तन्॑अयेषु रीरिषः || 7.046.03 ||
मान्᳚ओ वधी रुद्र॒ मा पर्᳚आ दा॒ मा त्᳚ए भूम॒ प्रस्॑इतौ हीलि॒तस्य्॑अ |
आन्᳚ओ भज ब॒र्हिष्॑इ जीवशं॒से यू॒यं प्᳚आत स्व॒स्तिभिः॒ सद्᳚आ नः || 7.046.04 ||
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व्॑अतासो वृत्र॒हत्ये॒ भर्॑अहूतौ स॒जोषाः᳚ |
यः शंस्॑अते स्तुव॒ते धाय्॑इ प॒ज्र इंद्र्॑अज्येष्ठा अ॒स्माँ ॑अवंतु दे॒वाः || 8.063.12 ||
(प्रगाथः काण्वः, देवाः, त्रिष्टुप्, गांधारः)
त्वम्॑अग्ने रु॒द्रो अस्॑उरो म॒हो दि॒वस्त्वं शर्धो॒ मार्॑उतं पृ॒क्ष ᳚ईशिषे |
त्वं-वाँत᳚इररु॒णैर्य्᳚आसि शंग॒यस्त्वं पू॒षा व्॑इध॒तः प्᳚आसि॒ नु त्मन्᳚आ || 2.001.06 ||
(आंगिरसः शौनहोत्रो भार्गवो गृत्समदः, अग्निः, भुरिक् त्रिष्टुप्, धैवतः)
आवो॒ राज्᳚आनमध्व॒रस्य्॑अ रु॒द्रं होत्᳚आरं सत्य॒यजं॒ रोद्॑अस्योः |
अ॒ग्निं पु॒रा त्॑अनयि॒त्नोर॒चित्ता॒द्धिर्᳚अण्यरूप॒मव्॑असे कृणुध्वम् || 4.003.01 ||
(वामदेवः, अग्निः, निचृत्त्रिष्टुप्, धैवतः)
तव्॑अ श्रि॒ये म॒रुत्᳚ओ मर्जयंत॒ रुद्र॒ यत्ते॒ जन्॑इम॒ चार्॑उ चि॒त्रम् |
प॒दं-यँद्विष्ण्᳚ओरुप॒मं नि॒धायि॒ तेन्॑अ पासि॒ गुह्यं॒ नाम॒ गोन्᳚आम् || 5.003.03 ||
(वसुश्रुत आत्रेयः, अग्निः, निचृत्त्रिष्टुप्, धैवतः)
भुव्॑अनस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिव्᳚आ व॒र्धय्᳚आ रु॒द्रम॒क्तौ |
बृ॒हंत्॑अमृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध्॑अग्घुवेम क॒विन्᳚एषि॒तासः॑ || 6.049.10 || ऋजिश्वाः, विश्वे देवाः, त्रिष्टुप्, धैवतः)
तम्॑उ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व्॑अस्य॒ क्षय्॑अति भेष॒जस्य्॑अ |
यक्ष्व्᳚आ म॒हे स᳚उमन॒साय्॑अ रु॒द्रं नम्᳚ओभिर्दे॒वमस्॑उरं दुवस्य || 5.042.11 ||
(अग्निः, विश्वे देवाः, निचृत्त्रिष्टुप्, धैवतः)
अ॒यं मे॒ हस्तो॒ भग्॑अवान॒यं मे॒ भग्॑अवत्तरः |
अ॒यं म्᳚ए वि॒श्वभ्᳚एषजो॒ऽयं शि॒वाभ्॑इमर्शनः || 10.060.12 ||
(बंध्वादयो गौपायनाः, हस्तः, निचृदनुष्टुप्, गांधारः)
त्र्य्᳚अंबकं-यँजामहे सु॒गंधिं᳚ पुष्टि॒वर्ध्॑अनम् |
उ॒र्वा॒रु॒कम्॑इव॒ बंध्॑अनान्मृ॒त्योर्म्॑उक्षीय॒ मामृत्᳚आत् || 7.059.12 ||
(वसिष्ठः, रुद्रः, अनुष्टुप्, गांधारः)
शांति पाठमंत्रः
हरिः॑ ॐ
तत्पुर्॑उषाय वि॒द्मह्॑ए महादे॒वाय्॑अ धीमहि |
तन्न्॑ओ रुद्रः प्रचो॒दय्॑आत् ||
ईशानस्सर्व्॑अविद्या॒ना॒मीश्वरः सर्व्॑अभूता॒नां॒ |
ब्रह्माध्॑इपति॒र्ब्रह्म॒णोऽध्॑इपति॒र्बह्म्॑आ शि॒वो म्॑एऽस्तु सदाशि॒वोम् ||
ॐ शि॒वो नाम्॑आसि॒ स्वध्॑इतिस्ते पि॒ता नम्॑अस्ते अस्तु॒ मा म्॑आ हिꣳसीः |
निव्॑अर्तयाम्याय्॑उषे॒ऽन्नाद्य्॑आय॒ प्रजन्॑अनाय रा॒यस्पोष्॑आय सुप्रजा॒स्त्वाय्॑अ सु॒वीर्य्॑आय ||
ॐ-विँश्व्॑आनि देव सवितर्दुरि॒तानि॒ परासुव |
यद्भ॒द्रं तन्न॒ आसुव ||
ॐ द्यौः शांत्॑इरं॒तर्॑इक्ष॒ꣳ शांतिः॑ पृथि॒वी शांति॒रापः॒ शांति॒रोष्॑अधयः॒ शांतिः॑ |
वन॒स्पत्॑अयः॒ शांति॒र्विश्व्॑एदे॒वाः शांति॒र्ब्रह्म॒ शांतिः॒ सर्व॒ꣳ शांतिः॒ शांत्॑इरे॒व शांतिः॒ सा मा॒ शांत्॑इरेधि ||
ॐ सर्वेषां-वाँ एष वेदानाꣳरसो यत्सामः |
सर्वेषामेवैनमेतद् वेदानाꣳ रसेनाभिषिंचति ||
ॐ शंभ्॑अवे॒ नमः॑ | नम्॑अस्ते अस्तु भगवन्विश्वेश्व॒राय्॑अ महादे॒वाय्॑अ त्र्यंब॒काय्॑अ त्रिपुरांत॒काय्॑अ त्रिकाग्निका॒लाय्॑अ
कालाग्निरु॒द्राय्॑अ नीलकं॒ठाय्॑अ मृत्युंज॒याय्॑अ सर्वेश्व॒राय्॑अ सदाशि॒वाय्॑अ श्रीमन्महादे॒वाय॒ नमः॑ ||
ॐ
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् |
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ||
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ||
अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशंकर महारुद्राः प्रीयतां न मम |
इति श्रीऋग्वेदीय पंचरुद्रं समाप्ता |
|| ॐ श्री सांब सदाशिवार्पणमस्तु ||