यस्मिन् जगत्सर्वमिदं विभाति
यश्चाप्यनन्यः सकलप्रपञ्चात् |
तिलेषु तैलोपममास्थितं त्वां
श्रीचन्द्रमौलीश्वरमाश्रयामः || १ ||
पश्यन्ति यन्न श्रुतयः शिरस्थं
शिरःस्थितं वस्त्विव सर्वलोकाः |
त्वामात्मभूतं जगतां त्रयाणां
श्रीचन्द्रमौलीश्वरमाश्रयामः || २ ||
अणोरणीयान् महतो महीया-
-नात्मा गुहायां निहितोऽस्य जन्तोः |
त्वं सर्वभूतस्थितमात्मरूपं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ३ ||
यः सर्वसाक्षी तमसः परस्ता-
-द्विभाति सर्वं किल यस्य भासा |
त्वामागमान्तैरपि दुर्निरूपं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ४ ||
पुमानविज्ञाय शिवं कदाचि-
-द्दुःखस्य नान्तं समुपैति धीरः |
त्वां सच्चिदानन्दमयं प्रशान्तं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ५ ||
अजं पुराणं पुरुषं महान्तं
अनश्वरं वाङ्मनसाऽति दूरम् |
ज्ञानात्मनां हृद्यवभासमानं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ६ ||
वदन्त्यमी यत्पदमेव वेदा
ज्ञाते तु यास्मिन् सकलं विबुद्धम् |
त्वां प्रत्यगात्मनमचिन्त्यशक्तिं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ७ ||
यं निर्विकल्पेन समाधिनैव
तपस्विनश्चेतसि वीतरागाः |
ध्यायन्ति तेजोमयमद्भुतं त्वां
श्रीचन्द्रमौलीश्वरमाश्रयामः || ८ ||
त्रिलोचनं चन्द्रकलावतंसं
गङ्गातरङ्गोल्लसदुत्तमाङ्गम् |
स्मेरास्यमिष्टप्रदमष्टमूर्तिं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ९ ||
अपारसच्चित्सुखराशिमेक-
-मनादिमध्यान्तमनन्तरूपम् |
त्रिलोचनं नीलगलं प्रशान्तं
श्रीचन्द्रमौलीश्वरमाश्रयामः || १० ||
कैलासशैलेन्द्रशिरस्तटेषु
नगेन्द्रपुत्र्या सह संवसन्तम् |
विभूति रुद्राक्षविभूषिताङ्गं
श्रीचन्द्रमौलीश्वरमाश्रयामः || ११ ||
इति शिवरहस्यान्तर्गते गणैः कृत श्री चन्द्रमौलीश्वर स्तुतिः ||