छोड़कर सामग्री पर जाएँ

Aditya Hridayam in Hindi – आदित्य हृदयम्

📿 100% Original Karungali Mala | Authentic & Lab Certified | 50% OFF | Free Shipping | Buy Now 📿
100% Original Karungali Mala 📿

🕉️ 100% Original Karungali Mala

Authentic & Lab Certified Pure Karungali Wood for Divine Protection & Positive Energy.

₹999 ₹499 50% OFF
⏳ Limited Time Offer
🔱 Buy Now @ ₹499 📿
Secure Payment - Powered by Razorpay
🔒 Secure Payment | Trusted Checkout
📿 100% Original Karungali Mala | 50% OFF | Limited Offer 📿 | Free shipping all over india
Original Karungali Mala 📿
Original Karungali Mala (Lab Certified)
₹999 ₹499 50% OFF

Join MantraSamhita WhatsApp Channel

Stay updated with the latest Hindu texts, updates, and exclusive content.

Join Now

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || १ ||

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः || २ ||

राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन् वत्स समरे विजयिष्यसि || ३ ||

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् |
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् || ४ ||

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् |
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् || ५ ||

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || ६ ||

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः || ७ ||

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || ८ ||

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः || ९ ||

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || १० ||

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् |
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् || ११ ||

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || १२ ||

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः |
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः || १३ ||

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || १४ ||

नक्षत्रग्रहताराणामधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते || १५ ||

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः | [पश्चिमे गिरये]
ज्योतिर्गणानां पतये दिनाधिपतये नमः || १६ ||

जयाय जयभद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || १७ ||

नम उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || १८ ||

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९ ||

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || २० ||

तप्तचामीकराभाय वह्नये विश्वकर्मणे |
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे || २१ ||

नाशयत्येष वै भूतं तदेव सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२ ||

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २३ ||

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः || २४ ||

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || २५ ||

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् |
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || २६ ||

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि |
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् || २७ ||

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् || २८ ||

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || २९ ||

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् |
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् || ३० ||

अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः |
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति || ३१ ||

इति आदित्य हृदयम् |

📜 Request Stotra

🙏 If this content helped you today

Your contribution helps maintain and sustain this website. It allows us to continue sharing sacred stotras in a peaceful and accessible space.

🪔 Contribute 🙏
Powered by Razorpay

Join MantraSamhita Community on WhatsApp & Facebook

Get latest Hindu texts, spiritual updates, and exclusive content directly to you.

Join WhatsApp Follow Facebook
🙏 Your voluntary support keeps this platform ad-free.
Contribute
Powered by Razorpay
error: Content is protected !!