विक्रमपाण्ड्य उवाच-
कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् |
कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् || १ ||
कालकूटप्रभाजालकलङ्कीकृतकन्धरम् |
कलाधरं कलामौलिं कलयेऽट्टालसुन्दरम् || २ ||
कालकालं कलातीतं कलावन्तं च निष्कलम् |
कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् || ३ ||
कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् |
कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् || ४ ||
कदम्बकाननाधीशं काङ्क्षितार्थसुरद्रुमम् |
कामशासनमीशानं कलयेऽट्टालसुन्दरम् || ५ ||
सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च |
रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् || ६ ||
स्वभक्तजनसन्तापपापापद्भङ्गतत्परम् |
कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् || ७ ||
कुलशेखरवंशोत्थभूपानां कुलदैवतम् |
परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् || ८ ||
अट्टालवीरश्रीशम्भोरष्टकं वरमिष्टदम् |
पठतां शृण्वतां सद्यस्तनोतु परमां श्रियम् || ९ ||
इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम् |