त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् |
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् || १ ||
त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः |
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् || २ ||
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे |
शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् || ३ ||
सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् |
सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् || ४ ||
दन्तिकोटिसहस्राणि वाजपेयशतानि च |
कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् || ५ ||
पार्वत्याः स्वेदसञ्जातं महादेवस्य च प्रियम् |
बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् || ६ ||
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारं एकबिल्वं शिवार्पणम् || ७ ||
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे |
अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम् || ८ ||
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ |
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् || ९ ||
इति बिल्वाष्टकम् ||