अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीचामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजं, दिग्बन्धदेवतास्तत्वं, श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्ग जपे विनियोगः |
ओं नमश्चण्डिकायै |
मार्कण्डेय उवाच |
यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् |
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह || १ ||
ब्रह्मोवाच |
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने || २ ||
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || ३ ||
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् || ४ ||
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः |
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना || ५ ||
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे |
विषमे दुर्गमे चैव भयार्ताः शरणं गताः || ६ ||
न तेषां जायते किञ्चिदशुभं रणसङ्कटे |
नापदं तस्य पश्यामि शोकदुःखभयं न हि || ७ ||
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते | [सिद्धिः]
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः || ८ ||
प्रेतसंस्था तु चामुण्डा वाराही महिषासना |
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना || ९ ||
माहेश्वरी वृषारूढा कौमारी शिखिवाहना |
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया || १० ||
श्वेतरूपधरा देवी ईश्वरी वृषवाहना |
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता || ११ ||
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः |
नानाभरणशोभाढ्या नानारत्नोपशोभिताः || १२ ||
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः |
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् || १३ ||
खेटकं तोमरं चैव परशुं पाशमेव च |
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् || १४ ||
दैत्यानां देहनाशाय भक्तानामभयाय च |
धारयन्त्यायुधानीत्थं देवानां च हिताय वै || १५ ||
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे |
महाबले महोत्साहे महाभयविनाशिनि || १६ ||
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि |
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता || १७ ||
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी |
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी || १८ ||
उदीच्यां रक्ष कौबेरी ईशान्यां शूलधारिणी | [कौमारी]
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा || १९ ||
एवं दश दिशो रक्षेच्चामुण्डा शववाहना |
जया मे चाग्रतः पातु विजया पातु पृष्ठतः || २० ||
अजिता वामपार्श्वे तु दक्षिणे चापराजिता |
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता || २१ || [उद्योतिनी]
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी |
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके || २२ ||
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी |
कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी || २३ ||
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका |
अधरे चामृताकला जिह्वायां च सरस्वती || २४ ||
दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका |
घण्टिकां चित्रघण्टा च महामाया च तालुके || २५ ||
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला |
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी || २६ ||
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी |
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी || २७ ||
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च |
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी || २८ || [कुलेश्वरी]
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी |
हृदयं ललिता देवी उदरे शूलधारिणी || २९ ||
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा |
भूतनाथा च मेढ्रं मे ऊरू महिषवाहिनी || ३० || [गुदे]
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी |
जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी || ३१ ||
गुल्फयोर्नारसिंही च पादपृष्ठामितौजसी |
पादाङ्गुलीषु श्रीरक्षेत् पादाधःस्थलवासिनी || ३२ ||
नखान् दंष्ट्रा कराली च केशांश्चैवोर्ध्वकेशिनी |
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा || ३३ ||
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती |
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी || ३४ ||
पद्मावती पद्मकोशे कफे चूडामणिस्तथा |
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु || ३५ ||
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा |
अहङ्कारं मनोबुद्धिं रक्ष मे धर्मचारिणी || ३६ || [धर्मधारिणी]
प्राणापानौ तथा व्यानमुदानं च समानकम् |
वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना || ३७ ||
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी |
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा || ३८ ||
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी |
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी || ३९ ||
गोत्रमिन्द्राणी मे रक्षेत् पशून्मे रक्ष चण्डिके |
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी || ४० ||
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा |
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता || ४१ ||
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु |
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी || ४२ ||
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः |
कवचेनावृतो नित्यं यत्र यत्र हि गच्छति || ४३ ||
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः |
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् || ४४ ||
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् |
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः || ४५ ||
त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् |
इदं तु देव्याः कवचं देवानामपि दुर्लभम् || ४६ ||
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः |
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः || ४७ ||
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः |
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः || ४८ ||
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् |
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले || ४९ ||
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः |
सहजा कुलजा माला डाकिनी शाकिनी तथा || ५० ||
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः |
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः || ५१ ||
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः |
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते || ५२ ||
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् |
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले || ५३ ||
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा |
यावद्भूमण्डलं धत्ते सशैलवनकाननम् || ५४ ||
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी |
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् || ५५ ||
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः |
लभते परमं रूपं शिवेन समतां व्रजेत् || ५६ ||
| ओम् |
इति देव्याः कवचं सम्पूर्णम् |