वन्दे वन्दारु मन्दारमिन्दिरानन्दकन्दलम् |
अमन्दानन्दसन्दोह बन्धुरं सिन्धुराननम् ||
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् |
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः || १ ||
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि |
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः || २ ||
विश्वामरेन्द्रपदविभ्रमदानदक्ष-
-मानन्दहेतुरधिकं मुरविद्विषोऽपि |
ईषन्निषीदतु मयि क्षणमीक्षणार्थ-
-मिन्दीवरोदरसहोदरमिन्दिरायाः || ३ ||
आमीलिताक्षमधिगम्य मुदा मुकुन्द-
-मानन्दकन्दमनिमेषमनङ्गतन्त्रम् |
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः || ४ ||
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति |
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः || ५ ||
कालाम्बुदालिललितोरसि कैटभारे-
-र्धाराधरे स्फुरति या तटिदङ्गनेव |
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः || ६ ||
प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-
-न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन |
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः || ७ ||
दद्याद्दयानुपवनो द्रविणाम्बुधारा-
-मस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे |
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः || ८ ||
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
-दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते |
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः || ९ ||
गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति |
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै || १० ||
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै |
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै || ११ ||
नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै |
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै || १२ ||
[* अधिक श्लोकाः –
नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै |
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै ||
नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसिस्थितायै |
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ||
नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै |
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ||
*]
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि |
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये || १३ ||
यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः |
सन्तनोति वचनाङ्गमानसै-
-स्त्वां मुरारिहृदयेश्वरीं भजे || १४ ||
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे |
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् || १५ ||
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
-स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् |
प्रातर्नमामि जगतां जननीमशेष-
-लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् || १६ ||
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः |
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः || १७ ||
[* अधिक श्लोकाः –
बिल्वाटवीमध्यलसत्सरोजे
सहस्रपत्रे सुखसन्निविष्टाम् |
अष्टापदाम्भोरुहपाणिपद्मां
सुवर्णवर्णां प्रणमामि लक्ष्मीम् ||
कमलासनपाणिना ललाटे
लिखितामक्षरपङ्क्तिमस्य जन्तोः |
परिमार्जय मातरङ्घ्रिणा ते
धनिकद्वारनिवास दुःखदोग्ध्रीम् ||
अम्भोरुहं जन्मगृहं भवत्याः
वक्षःस्थलं भर्तृगृहं मुरारेः |
कारुण्यतः कल्पय पद्मवासे
लीलागृहं मे हृदयारविन्दम् ||
*]
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् |
गुणाधिका गुरुतरभाग्यभाजिनो
भवन्ति ते भुवि बुधभाविताशयाः || १८ ||
[* अधिक श्लोकं –
सुवर्णधारास्तोत्रम् यच्छङ्कराचार्य निर्मितम् |
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ||
*]
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कनकधारास्तोत्रम् सम्पूर्णम् |