छोड़कर सामग्री पर जाएँ

Mantra Pushpam in Hindi – मंत्र पुष्पम्

📿 100% Original Karungali Mala | Authentic & Lab Certified | 50% OFF | Free Shipping | Buy Now 📿
100% Original Karungali Mala 📿

🕉️ 100% Original Karungali Mala

Authentic & Lab Certified Pure Karungali Wood for Divine Protection & Positive Energy.

₹999 ₹499 50% OFF
⏳ Limited Time Offer
🔱 Buy Now @ ₹499 📿
Secure Payment - Powered by Razorpay
🔒 Secure Payment | Trusted Checkout
📿 100% Original Karungali Mala | 50% OFF | Limited Offer 📿 | Free shipping all over india
Original Karungali Mala 📿
Original Karungali Mala (Lab Certified)
₹999 ₹499 50% OFF

Join MantraSamhita WhatsApp Channel

Stay updated with the latest Hindu texts, updates, and exclusive content.

Join Now

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः |
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः |
स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ |
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ||
स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः |
स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः |
स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः |
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ||
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ||

यो॑ऽपां पुष्पं॒-वेँद॑ |
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति |
चं॒द्रमा॒ वा अ॒पां पुष्पम्᳚ |
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

अ॒ग्निर्वा अ॒पामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
यो᳚ऽग्नेरा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒वा अ॒ग्नेरा॒यत॑नम् |
आ॒यत॑नवान् भवति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

वा॒युर्वा अ॒पामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
यो वा॒योरा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒ वै वा॒योरा॒यत॑नम् |
आ॒यत॑नवान् भवति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
यो॑ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् |
आ॒यत॑नवान् भवति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

चं॒द्रमा॒ वा अ॒पामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
यश्चं॒द्रम॑स आ॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒ वै चं॒द्रम॑स आ॒यत॑नम् |
आ॒यत॑नवान् भवति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् |
आ॒यत॑नवान् भवति |
यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् |
आ॒यत॑नवान् भवति |
य ए॒वं-वेँद॑ |
यो॑ऽपामा॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति ||

सं॒​वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् |
आ॒यत॑नवान् भवति |
यः सं॑​वँत्स॒रस्या॒यत॑नं॒-वेँद॑ |
आ॒यत॑नवान् भवति |
आपो॒ वै सं॑​वँत्स॒रस्या॒यत॑नम् |
आ॒यत॑नवान् भवति |
य एवं-वेँद॑ |
यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒-वेँद॑ |
प्रत्ये॒व ति॑ष्ठति ||

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ |
नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे |
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ |
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु |
कु॒बे॒राय॑ वैश्रव॒णाय॑ |
म॒हा॒राजाय॒ नमः॑ ||

ॐ᳚ तद्ब्र॒ह्म |
ॐ᳚ तद्वा॒युः |
ॐ᳚ तदा॒त्मा |
ॐ᳚ तथ्स॒त्यम् |
ॐ᳚ तत्सर्वम्᳚ |
ॐ᳚ तत्पुरो॒र्नमः ||

अंतश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु |
त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिंद्रस्त्वग्ं
रुद्रस्त्वं-विँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः |
त्वं त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् |

ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒-र्ब्रह्म॒णोऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् |

तद्विष्णोः᳚ पर॒मं प॒दग्ं सदा॑ पश्यंति सू॒रयः॑ |
दि॒वीव॒ चक्षु॒रात॑तम् |
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समिं॑धते |
विष्नो॒र्यत्प॑र॒मं प॒दम् |

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् |
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ||

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि |
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ||

ॐ शांतिः॒ शांतिः॒ शांतिः॑ |

📜 Request Stotra

🙏 If this content helped you today

Your contribution helps maintain and sustain this website. It allows us to continue sharing sacred stotras in a peaceful and accessible space.

🪔 Contribute 🙏
Powered by Razorpay

Join MantraSamhita Community on WhatsApp & Facebook

Get latest Hindu texts, spiritual updates, and exclusive content directly to you.

Join WhatsApp Follow Facebook
🙏 Your voluntary support keeps this platform ad-free.
Contribute
Powered by Razorpay
error: Content is protected !!