आरोग्यं पद्मबन्धुर्वितरतु नितरां सम्पदं शीतरश्मिः |
भूलाभं भूमिपुत्रः सकलगुणयुतां वाग्विभूतिं च सौम्यः || १ ||
सौभाग्यं देवमन्त्री रिपुभयशमनं भार्गवः शौर्यमार्किः |
दीर्घायुः सैंहिकेयः विपुलतरयशः केतुराचन्द्रतारम् || २ ||
अरिष्टानि प्रणश्यन्तु दुरितानि भयानि च |
शान्तिरस्तु शुभं मेऽस्तु ग्रहाः कुर्वन्तु मङ्गलम् || ३ ||
इति नवग्रह प्रार्थना |