जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् |
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् || १ ||
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् |
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् || २ ||
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् |
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् || ३ ||
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् |
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् || ४ ||
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् |
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् || ५ ||
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् |
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् || ६ ||
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् |
छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम् || ७ ||
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् |
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् || ८ ||
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् || ९ ||
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः |
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति || १० ||
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् |
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् || ११ ||
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः |
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः || १२ ||
इति श्रीव्यास कृत नवग्रह स्तोत्रम् |