तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् |
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् || १ ||
कोऽन्वस्मिन्साम्प्रतं लोके गुणवान् कश्च वीर्यवान् |
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः || २ ||
चारित्रेण च को युक्तः सर्वभूतेषु को हितः |
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः || ३ ||
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः |
कस्य बिभ्यति देवाश्च जातरोषस्य सम्युगे || ४ ||
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे |
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् || ५ ||
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः |
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् || ६ ||
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः |
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः || ७ || [बुद्ध्या]
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः |
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी || ८ ||
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः |
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः || ९ ||
महोरस्को महेष्वासो गूढजत्रुररिन्दमः |
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः || १० ||
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् |
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः || ११ ||
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः |
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् || १२ ||
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः |
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता || १३ ||
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता |
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः || १४ ||
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् |
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः || १५ ||
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः |
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः || १६ ||
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः |
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव || १७ ||
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः |
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः || १८ ||
धनदेन समस्त्यागे सत्ये धर्म इवापरः |
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् || १९ ||
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् |
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया || २० ||
यौवराज्येन सम्योक्तुमैच्छत्प्रीत्या महीपतिः |
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी || २१ ||
पूर्वं दत्तवरा देवी वरमेनमयाचत |
विवासनं च रामस्य भरतस्याभिषेचनम् || २२ ||
स सत्यवचनाद्राजा धर्मपाशेन सम्यतः | [चैव]
विवासयामास सुतं रामं दशरथः प्रियम् || २३ ||
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् |
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् || २४ ||
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह |
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः || २५ ||
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् |
रामस्य दयिता भार्या नित्यं प्राणसमा हिता || २६ ||
जनकस्य कुले जाता देवमायेव निर्मिता |
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः || २७ ||
सीताप्यनुगता रामं शशिनं रोहिणी यथा |
पौरैरनुगतो दूरं पित्रा दशरथेन च || २८ ||
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् |
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् || २९ ||
गुहेन सहितो रामो लक्ष्मणेन च सीतया |
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः || ३० ||
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् |
रम्यमावसथं कृत्वा रममाणा वने त्रयः || ३१ ||
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् |
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा || ३२ ||
राजा दशरथः स्वर्गं जगाम विलपन्सुतम् |
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः || ३३ ||
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः |
स जगाम वनं वीरो रामपादप्रसादकः || ३४ ||
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् | [स महा|]
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः || ३५ ||
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् |
रामोऽपि परमोदारः सुमुखः सुमहायशाः || ३६ ||
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः |
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः || ३७ ||
निवर्तयामास ततो भरतं भरताग्रजः |
स काममनवाप्यैव रामपादावुपस्पृशन् || ३८ ||
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया |
गते तु भरते श्रीमान्सत्यसन्धो जितेन्द्रियः || ३९ ||
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च |
तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह || ४० ||
प्रविश्य तु महारण्यं रामो राजीवलोचनः |
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह || ४१ ||
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा |
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् || ४२ ||
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ |
वसतस्तस्य रामस्य वने वनचरैः सह || ४३ ||
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् |
स तेषां प्रतिशुश्राव राक्षसानां तथा वने || ४४ ||
प्रतिज्ञातश्च रामेण वधः सम्यति रक्षसाम् |
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् || ४५ ||
तेन तत्रैव वसता जनस्थाननिवासिनी |
विरूपिता शूर्पणखा राक्षसी कामरूपिणी || ४६ ||
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् |
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् || ४७ ||
निजघान रणे रामस्तेषां चैव पदानुगान् |
वने तस्मिन्निवसता जनस्थाननिवासिनाम् || ४८ ||
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश |
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः || ४९ ||
सहायं वरयामास मारीचं नाम राक्षसम् |
वार्यमाणः सुबहुशो मारीचेन स रावणः || ५० ||
न विरोधो बलवता क्षमो रावण तेन ते |
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः || ५१ ||
जगाम सहमारीचस्तस्याश्रमपदं तदा |
तेन मायाविना दूरमपवाह्य नृपात्मजौ || ५२ ||
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् |
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् || ५३ ||
राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः |
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् || ५४ ||
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह |
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् || ५५ ||
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः |
स चाऽऽस्य कथयामास शबरीं धर्मचारिणीम् || ५६ ||
श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् |
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः || ५७ ||
शबर्या पूजितः सम्यग्रामो दशरथात्मजः |
पम्पातीरे हनुमता सङ्गतो वानरेण ह || ५८ ||
हनुमद्वचनाच्चैव सुग्रीवेण समागतः |
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः || ५९ ||
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः |
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः || ६० ||
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् |
ततो वानरराजेन वैरानुकथनं प्रति || ६१ ||
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च |
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति || ६२ ||
वालिनश्च बलं तत्र कथयामास वानरः |
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे || ६३ ||
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् |
दर्शयामास सुग्रीवो महापर्वत सन्निभम् || ६४ ||
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः |
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् || ६५ ||
बिभेद च पुनः सालान्सप्तैकेन महेषुणा |
गिरिं रसातलं चैव जनयन्प्रत्ययं तदा || ६६ ||
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः |
किष्किन्धां रामसहितो जगाम च गुहां तदा || ६७ ||
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः |
तेन नादेन महता निर्जगाम हरीश्वरः || ६८ ||
अनुमान्य तदा तारां सुग्रीवेण समागतः |
निजघान च तत्रैनं शरेणैकेन राघवः || ६९ ||
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे |
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् || ७० ||
स च सर्वान्समानीय वानरान्वानरर्षभः |
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् || ७१ ||
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली |
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || ७२ ||
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् || ७३ ||
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य च |
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् || ७४ ||
पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि |
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् || ७५ ||
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् |
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया || ७६ ||
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् |
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः || ७७ ||
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् |
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः || ७८ ||
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः |
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः || ७९ ||
दर्शयामास चात्मानं समुद्रः सरितां पतिः |
समुद्रवचनाच्चैव नलं सेतुमकारयत् || ८० ||
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे |
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् || ८१ ||
तामुवाच ततो रामः परुषं जनसंसदि |
अमृष्यमाणा सा सीता विवेश ज्वलनं सती || ८२ ||
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् |
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः || ८३ ||
कर्मणा तेन महता त्रैलोक्यं सचराचरम् |
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः || ८४ ||
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् |
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह || ८५ ||
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् |
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः || ८६ ||
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः |
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् || ८७ ||
पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च सः |
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा || ८८ ||
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || ८९ ||
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः | [प्रहृष्टो]
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः || ९० ||
न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषाः क्वचित् |
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः || ९१ ||
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः |
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा || ९२ ||
न चापि क्षुद्भयं तत्र न तस्करभयं तथा |
नगराणि च राष्ट्राणि धनधान्ययुतानि च || ९३ ||
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा |
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः || ९४ ||
गवां कोट्ययुतं दत्वा विद्वद्भ्यो विधिपूर्वकम् |
असङ्ख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः || ९५ ||
राजवंशान् शतगुणान् स्थापयिष्यति राघवः |
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति || ९६ ||
दशवर्षसहस्राणि दशवर्षशतानि च |
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति || ९७ ||
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् |
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते || ९८ ||
एतदाख्यानमायुष्यं पठन्रामायणं नरः |
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते || ९९ ||
पठन् द्विजो वागृषभत्वमीया-
-त्स्यात् क्षत्रियो भूमिपतित्वमीयात् |
वणिग्जनः पण्यफलत्वमीया-
-ज्जनश्च शूद्रोऽपि महत्त्वमीयात् || १०० ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे (नारदवाक्यं नाम) प्रथमः सर्गः || १ ||