नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे |
विलोहिताय शुभ्राय शुक्लाम्बरधराय च || १ ||
त्वमेव सर्वलोकानामाप्यायनकरः सदा |
क्षीरोद्भवाय देवाय नमः शङ्करशेखर || २ ||
युगानां युगकर्ता त्वं निशानाथो निशाकरः |
संवत्सराणां मासानामृतूनां तु तथैव च || ३ ||
ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः |
ओषधीपतये तुभ्यं रोहिणीपतये नमः || ४ ||
इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः |
दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः || ५ ||
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति |
अहोरात्रकृतं पापं पठनादेव नश्यति || ६ ||
द्विजराजो महापुण्यस्तारापतिर्विशेषतः |
ओषधीनां च यो राजा स सोमः प्रीयतां मम || ७ ||
इति चन्द्र स्तोत्रम् |