शिवमद्भुतकीर्तिधरं वरदं
शुभमङ्गलपुण्यपराक्रमदम् |
करुणाजलधिं कमनीयनुतं
गुरुमूर्तिमहं सततं कलये || १ ||
बहुदैत्यविनाशकरं भगदं
बहुकालसुखावहदानवरम् |
बलबुद्धियशोधनधान्यगतं
गुरुमूर्तिमहं सततं कलये || २ ||
परमं पुरुषं पशुपाशहरं
परयोन्मनया परितोविहितम् |
फलदं बलदं भजतां तु हि तं
गुरुमूर्तिमहं सततं कलये || ३ ||
करपल्लवसल्ललिताऽभयदं
गुरुराजवरं गुहमन्त्रगतम् |
सततं शिवदं सनकादियुतं
गुरुमूर्तिमहं सततं कलये || ४ ||
ससुतं सवृषं सुलभासनकं
सलिलान्वितचन्द्रकलाकलितम् |
विमलं कमलासनसन्निहितं
गुरुमूर्तिमहं सततं कलये || ५ ||
अरुणाचलमीशमभीष्टवरं
करुणार्णवपूरितलोचनकम् |
तरुणारुणशोभितगात्रममुं
गुरुमूर्तिमहं सततं कलये || ६ ||
वटदारुवनेवसिनं शशिनं
जटयाधरमादिमनीशमजम् |
पटुरायतभारतिवाक्यगतं
गुरुमूर्तिमहं सततं कलये || ७ ||
तपसाह्वयितं तपसां बलदं
तपनोडुपवह्निकलानयनम् |
कुपितान्तकमादिमनाकुलदं
गुरुमूर्तिमहं सततं कलये || ८ ||
रजताचलमध्यवसं भसितो-
-ल्लसितं भवरोगसुभेषजकम् |
भसितीकृतमन्मथमीतिहरं
गुरुमूर्तिमहं सततं कलये || ९ ||
परमेश्वरमम्बिकयासहितं
हरिपद्मजसन्नुतपादयुगम् |
परमाद्भुतमोदकरं तनुतां
गुरुमूर्तिमहं सततं कलये || १० ||
इति श्री गुरुमूर्ति स्तोत्रम् ||