जटातटान्तरोल्लसत्सुरापगोर्मिभास्वरं
ललाटनेत्रमिन्दुनाविराजमानशेखरम् |
लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || १ ||
पुरान्धकादिदाहकं मनोभवप्रदाहकं
महाघराशिनाशकं अभीप्सितार्थदायकम् |
जगत्त्रयैककारकं विभाकरं विदारकं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || २ ||
मदीय मानसस्थले सदाऽस्तु ते पदद्वयं
मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् |
मदीय लोचनाग्रतः सदाऽर्धचन्द्रविग्रहं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || ३ ||
भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये
भजन्ति हाटकेश्वरं प्रमाणमात्र नागराः |
धनेन तेज साधिकाः कुलेन चाऽखिलोन्नताः
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || ४ ||
सदाशिवोऽहमित्यहर्निशं भजेत यो जनाः
सदा शिवं करोति तं न संशयोऽत्र कश्चन |
अहो दयालुता महेश्वरस्य दृश्यतां बुधा
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || ५ ||
धराधरात्मजापते त्रिलोचनेश शङ्करं
गिरीश चन्द्रशेखराऽहिराजभूषणेश्वरः |
महेश नन्दिवाहनेति सङ्घटन्नहर्निशं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || ६ ||
महेश पाहि मां मुदा गिरीश पाहि मां सदा
भवार्णवे निमज्जतस्त्वमेव मेऽसि तारकः |
करावलम्बनं झटित्यहोऽधुना प्रदीयतां
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || ७ ||
धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं
सुरासुरेश्वरं रमापतीश्वरं महेश्वरम् |
प्रचण्ड चण्डिकेश्वरं विनीत नन्दिकेश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् || ८ ||
हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् |
हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् || ९ ||
इति श्री हाटकेश्वराष्टकम् |