जय कामेशि चामुण्डे जय भूतापहारिणि |
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते || १ ||
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने |
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते || २ ||
मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये |
महामाये महेशानि कामेश्वरि नमोऽस्तु ते || ३ ||
भीमाक्षि भीषणे देवि सर्वभूतक्षयङ्करि |
कालि च विकरालि च कामेश्वरि नमोऽस्तु ते || ३ ||
कालि करालविक्रान्ते कामेश्वरि हरप्रिये |
सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते || ४ ||
कामरूपप्रदीपे च नीलकूटनिवासिनि |
निशुम्भशुम्भमथनि कामेश्वरि नमोऽस्तु ते || ५ ||
कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये |
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते || ६ ||
वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि |
महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते || ७ ||
छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते |
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते || ८ ||
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः |
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः || ९ ||
संवत्सरेण लभते राज्यं निष्कण्टकं पुनः |
य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् |
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति || १० ||
श्रीकामरूपेश्वरि भास्करप्रभे
प्रकाशिताम्भोजनिभायतानने |
सुरारिरक्षःस्तुतिपातनोत्सुके
त्रयीमये देवनुते नमामि || ११ ||
सितासिते रक्तपिशङ्गविग्रहे
रूपाणि यस्याः प्रतिभान्ति तानि |
विकाररूपा च विकल्पितानि
शुभाशुभानामपि तां नमामि || १२ ||
कामरूपसमुद्भूते कामपीठावतंसके |
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते || १३ ||
अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि |
कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते || १४ ||
या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणी |
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते || १५ ||
दंष्ट्राकरालवदने मुण्डमालोपशोभिते |
सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते || १६ ||
चामुण्डे च महाकालि कालि कपालहारिणी |
पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते || १७ ||
चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले |
शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते || १८ ||
इति श्री कामाख्या स्तोत्रम् |