नन्दिकेश्वर उवाच |
कैलासस्योत्तरे शृङ्गे शुद्धस्फटिकसन्निभे |
तमोगुणविहीने तु जरामृत्युविवर्जिते || १ ||
सर्वतीर्थास्पदाधारे सर्वज्ञानकृतालये |
कृताञ्जलिपुटो ब्रह्मा ध्यानासीनं सदाशिवम् || २ ||
पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनिं गतः |
सर्वार्थसम्पदाधारो ब्रह्मा लोकपितामहः || ३ ||
ब्रह्मोवाच |
केनोपायेन देवेश चिरायुर्लोमशोऽभवत् |
तन्मे ब्रूहि महेशान लोकानां हितकाम्यया || ४ ||
श्रीसदाशिव उवाच |
शृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः |
सञ्जातो कर्मणा येन व्याधिमृत्युविवर्जितः || ५ ||
तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते |
कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः || ६ ||
तस्य सङ्कीर्तनान्नित्यं मर्त्यो मृत्युविवर्जितः |
त्वमेव कीर्तयन् ब्रह्मन् मृत्युं जेतुं न संशयः || ७ ||
लोमश उवाच |
देवाधिदेव देवेश सर्वप्राणभृतां वर |
प्राणिनामपि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते || ८ ||
देहिनां जीवभूतोऽसि जीवो जीवस्य कारणम् |
जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तु ते || ९ ||
हेमाद्रिशिखराकार सुधावीचिमनोहर |
पुण्डरीक परं ज्योतिर्मुत्युञ्जय नमोऽस्तु ते || १० ||
ध्यानाधार महाज्ञान सर्वज्ञानैककारण |
परित्रातासि लोकानां मृत्युञ्जय नमोऽस्तु ते || ११ ||
निहता येन कालेन सदेवासुरमानुषाः |
गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा || १२ ||
साध्याश्च वसवो रुद्रास्तथाश्विनिसुतावुभौ |
मरुतश्च दिशो नागाः स्थावरा जङ्गमास्तथा || १३ ||
अनङ्गेन मनोजेन पुष्पचापेन केवलम् |
जितः सोऽपि त्वया ध्यानान्मृत्युञ्जय नमोऽस्तु ते || १४ ||
ये ध्यायन्ति परां मूर्तिं पूजयन्त्यमराधिप |
न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तु ते || १५ ||
त्वमोङ्कारोऽसि वेदानां देवानां च सदाशिवः |
आधारशक्तिः शक्तीनां मृत्युञ्जय नमोऽस्तु ते || १६ ||
स्थावरे जङ्गमे वापि यावत्तिष्ठति मेदिनी |
जीवत्वित्याह लोकोऽयं मृत्युञ्जय नमोऽस्तु ते || १७ ||
सोमसूर्याग्निमध्यस्थ व्योमव्यापिन् सदाशिवः |
कालत्रय महाकाल मृत्युञ्जय नमोऽस्तु ते || १८ ||
प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् |
सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते || १९ ||
व्योम्नि त्वं व्योमरूपोऽसि तेजः सर्वत्र तेजसि |
प्राणिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते || २० ||
जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः |
कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते || २१ ||
नेता त्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः |
साङ्ख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते || २२ ||
रूपातीतः सुरूपश्च पिण्डस्था पदमेव च |
चतुर्युगकलाधार मृत्युञ्जय नमोऽस्तु ते || २३ ||
रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके |
कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते || २४ ||
क्षयं करोऽसि पापानां पुण्यानामपि वर्धसम् |
हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते || २५ ||
सर्वमायाकलातीत सर्वेन्द्रियपरावर |
सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते || २६ ||
रूपं गन्धो रसः स्पर्शः शब्दः संस्कार एव च |
त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते || २७ ||
चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर |
भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते || २८ ||
त्वमेको निष्कलो लोके सकलं भुवनत्रयम् |
अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते || २९ ||
त्वं प्रबोधस्त्वमाधारस्त्वद्बीजं भुवनत्रयम् |
सत्त्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते || ३० ||
त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः |
अष्टत्रिंशत्कलानाथ मृत्युञ्जय नमोऽस्तु ते || ३१ ||
सर्वेन्द्रियाणामाधारः सर्वभूतगणाश्रयः |
सर्वज्ञानमयानन्त मृत्युञ्जय नमोऽस्तु ते || ३२ ||
त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः |
सर्वानन्दमयाधार मृत्युञ्जय नमोऽस्तु ते || ३३ ||
त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोधलक्षणा |
शब्दब्रह्म त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते || ३४ ||
श्रीसदाशिव उवाच |
एवं सङ्कीर्तयेद्यस्तु शुचिस्तद्गतमानसः |
भक्त्या शृणोति यो ब्रह्मन् न स मृत्युवशो भवेत् || ३५ ||
न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत् |
अपमृत्युभयं तस्य प्रणश्यति न संशयः || ३६ ||
व्याधयो नोपपद्यन्ते नोपसर्गभयं भवेत् |
प्रत्यासन्नान्तरे काले शतैकावर्तने कृते || ३७ ||
मृत्युर्न जायते तस्य रोगान्मुञ्चति निश्चितम् |
पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा || ३८ ||
शतमावर्तयेद्यस्तु शतवर्षं स जीवति |
तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् || ३९ ||
त्रिविधं नाशयेत्पापं मनोवाक्कायसम्भवम् |
अभिचाराणि कर्माणि कर्माण्याथर्वणानि च |
क्षीयन्ते नात्र सन्देहो दुःस्वप्नं च विनश्यति || ४० ||
इदं रहस्यं परमं देवदेवस्य शूलिनः |
दुःखप्रणाशनं पुण्यं सर्वविघ्नविनाशनम् || ४१ ||
इति श्रीशिवब्रह्मसंवादे श्रीमृत्युञ्जय स्तोत्रम् |