ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् |
राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् || १ ||
दशरथ उवाच |
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च |
नमो नीलमयूखाय नीलोत्पलनिभाय च || २ || [मधूकाय]
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च |
नमो विशालनेत्राय शुष्कोदर भयानक || ३ ||
नमः परुषगात्राय स्थूलरोमाय वै नमः |
नमो नित्यं क्षुधार्ताय नित्यतप्ताय वै नमः || ४ || [तृप्ताय]
नमः कालाग्निरूपाय कृतान्तक नमोऽस्तु ते |
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः || ५ ||
नमो घोराय रौद्राय भीषणाय करालिने |
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते || ६ ||
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायक | [भास्वरो]
अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते || ७ || [संवर्तक]
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः | [निष्प्रभाय]
तपसा दग्धदेहाय नित्ययोगरताय च || ८ || [ज्ञान]
नमस्ते ज्ञाननेत्राय काश्यपात्मजसूनवे |
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत् क्षणात् || ९ || [क्रुद्धो]
देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः |
त्वया विलोकिताः सौरे दैन्यमाशु व्रजन्ति च || १० ||
ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः |
राज्यभ्रष्टाश्च ते सर्वे तव दृष्ट्या विलोकिताः || ११ ||
देशा नगरग्रामाश्च द्वीपाश्चैवाद्रयस्तथा |
रौद्रदृष्ट्या तु ये दृष्टाः क्षयं गच्छन्ति तत् क्षणात् || १२ ||
प्रसादं कुरु मे सौरे वरार्थेऽहं तवाश्रितः |
सौरे क्षमस्वापराधं सर्वभूतहिताय च || १३ ||
इति दशरथ कृत श्री शनैश्चर स्तोत्रम् ||