हयग्रीव उवाच |
सङ्गीतयोगिनी श्यामा श्यामला मन्त्रनायिका |
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया || १ ||
वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया |
नीपप्रिया कदम्बेशी कदम्बवनवासिनी || २ ||
सदामदा च नामानि षोडशैतानि कुम्भज |
एतैर्यः सचिवेशानीं सकृत् स्तौति शरीरवान् |
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् || ३ ||
इति श्री ब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोऽध्याये श्री श्यामला षोडशनाम स्तोत्रम् |