हयग्रीव उवाच |
शृणु द्वादशनामानि तस्या देव्या घटोद्भव |
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति || १ ||
पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी |
तथा समयसङ्केता वाराही पोत्रिणी शिवा || २ ||
वार्ताली च महासेनाप्याज्ञाचक्रेश्वरी तथा |
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने || ३ ||
नामद्वादशकाभिख्य वज्रपञ्जर मध्यगः |
सङ्कटे दुःखमाप्नोति न कदाचन मानवः || ४ ||
एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः |
तेषामनुग्रहार्थाय प्रचचाल च सा पुनः || ५ ||
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोध्याये श्री वाराही द्वादशनाम स्तोत्रम् |