शंकारूपेण मच्चित्तं पंकीकृतमभूद्यया |
किंकरी यस्य सा माया शंकराचार्यमाश्रये ||१||
प्रह्लादवरदो देवो यो नृसिंहः परो हरिः |
नृसिंहोपासकं नित्यं तं नृसिंहगुरुं भजे ||२||
श्रीसच्चिदानंद शिवाभिनव्यनृसिंहभारत्यभिधान् यतींद्रान् |
विद्यानिधीन् मंत्रनिधीन् सदात्मनिष्ठान् भजे मानवशंभुरूपान् ||३||
सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखं |
नौमि शास्त्रेषु निष्णातं चंद्रशेखरभारतीं ||४||
विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिं |
सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ||५||
अज्ञानां जाह्नवीतीर्थं विद्यातीर्थं विवेकिनां |
सर्वेषां सुखदं तीर्थं भारतीतीर्थमाश्रये ||६||
विद्याविनयसंपन्नं वीतरागं विवेकिनं |
वंदे वेदांततत्त्वज्ञं विधुशेखरभारतीं ||७||
श्रीमत्परमहंसपरिव्राजकाचार्यवर्य-
पदवाक्यप्रमाणपारावारपारीण-यमनियमासन-
प्राणायामप्रत्याहारधारणाध्यान-
समाध्यष्टांगयोगानुष्ठाननिष्ठ-तपश्चक्रवर्ति-
अनाद्यविच्छिन्नश्रीशंकराचार्यगुरुपरंपराप्राप्त-
षड्दर्शनस्थापनाचार्य-व्याख्यानसिंहासनाधीश्वर-
सकलनिगमागमसारहृदय-सांख्यत्रयप्रतिपादक-
वैदिकमार्गप्रवर्तक-सर्वतंत्रस्वतंत्र-आदिराजधानी-
विद्यानगरमहाराजधानी-कर्णाटकसिंहासनप्रतिष्ठापनाचार्य-
श्रीमद्राजाधिराजगुरु-भूमंडलाचार्य-
ऋष्यशृंगपुरवराधीश्वर-तुंगभद्रातीरवासि-
श्रीमद्विद्याशंकरपादपद्माराधक-श्रीमज्जगद्गुरु-
श्रीमदभिनवविद्यातीर्थमहास्वामिगुरुकरकमलसंजात-
श्रीमज्जगद्गुरु-श्रीभारतीतीर्थमहास्वामिनां तत्करकमलसंजात-
श्रीमज्जगद्गुरु-श्रीविधुशेखरभारती-महास्वामिनां च
चरणारविंदयोः साष्टांगप्रणामान् समर्पयामः ||