छोड़कर सामग्री पर जाएँ

Tattvabodha (Adi Shankaracharya) in Hindi – तत्त्वबोध (आदि शंकराचार्य)

📿 100% Original Karungali Mala | Authentic & Lab Certified | 50% OFF | Free Shipping | Buy Now 📿
100% Original Karungali Mala 📿

🕉️ 100% Original Karungali Mala

Authentic & Lab Certified Pure Karungali Wood for Divine Protection & Positive Energy.

₹999 ₹499 50% OFF
⏳ Limited Time Offer
🔱 Buy Now @ ₹499 📿
Secure Payment - Powered by Razorpay
🔒 Secure Payment | Trusted Checkout
📿 100% Original Karungali Mala | 50% OFF | Limited Offer 📿 | Free shipping all over india
Original Karungali Mala 📿
Original Karungali Mala (Lab Certified)
₹999 ₹499 50% OFF

Join MantraSamhita WhatsApp Channel

Stay updated with the latest Hindu texts, updates, and exclusive content.

Join Now

ध्यानं
वासुदेवेंद्रयोगींद्रं नत्वा ज्ञानप्रदं गुरुम् |
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ||

साधनचतुष्टयसंपन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः |

साधनचतुष्टयम्
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः |
इहामुत्रार्थफलभोगविरागः |
शमादिषट्कसंपत्तिः |
मुमुक्षुत्वं चेति |

नित्यानित्यवस्तुविवेकः
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् |
अयमेव नित्यानित्यवस्तुविवेकः |

विरागः
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् |

शमादिसाधनसंपत्तिः
शमादिसाधनसंपत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति |शमः कः ?
मनोनिग्रहः |
दमः कः ?
चक्षुरादिबाह्येंद्रियनिग्रहः |
उपरमः कः ?
स्वधर्मानुष्ठानमेव |
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् |
श्रद्धा कीदृशी ?
गुरुवेदांतवाक्यादिषु विश्वासः श्रद्धा |
समाधानं किम् ?
चित्तैकाग्रता |

मुमुक्षुत्वं
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा |
एतत् साधनचतुष्टयम् |
ततस्तत्त्वविवेकस्याधिकारिणो भवंति |

तत्त्वविवेकः
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति |आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पंचकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानंदस्वरूपः सन्
यस्तिष्ठति स आत्मा |

शरीरत्रयं (स्थूलशरीरम्)
स्थूलशरीरं किम् ?
पंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् |

शरीरत्रयं (सूक्ष्मशरीरम्)
सूक्ष्मशरीरं किम् ?
अपंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पंचज्ञानेंद्रियाणि पंचकर्मेंद्रियाणि पंचप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् |

ज्ञानेंद्रियाणि
श्रोत्रं त्वक् चक्षुः रसना घ्राणं इति पंच ज्ञानेंद्रियाणि |
श्रोत्रस्य दिग्देवता |
त्वचो वायुः |
चक्षुषः सूर्यः |
रसनाया वरुणः |
घ्राणस्य अश्विनौ |
इति ज्ञानेंद्रियदेवताः |
श्रोत्रस्य विषयः शब्दग्रहणम् |
त्वचो विषयः स्पर्शग्रहणम् |
चक्षुषो विषयः रूपग्रहणम् |
रसनाया विषयः रसग्रहणम् |
घ्राणस्य विषयः गंधग्रहणं इति |

पंचकर्मेंद्रियाणि
वाक्पाणिपादपायूपस्थानीति पंचकर्मेंद्रियाणि |
वाचो देवता वह्निः |
हस्तयोरिंद्रः |
पादयोर्विष्णुः |
पायोर्मृत्युः |
उपस्थस्य प्रजापतिः |
इति कर्मेंद्रियदेवताः |
वाचो विषयः भाषणम् |
पाण्योर्विषयः वस्तुग्रहणम् |
पादयोर्विषयः गमनम् |
पायोर्विषयः मलत्यागः |
उपस्थस्य विषयः आनंद इति |

कारणशरीरम्
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् |

अवस्थात्रयम्
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः |

जाग्रदवस्था
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेंद्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था |
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते |

स्वप्नावस्था
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपंचः प्रतीयते सा
स्वप्नावस्था |
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते |

सुषुप्त्यवस्था
अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था |
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते |

पंच कोशाः
पंच कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनंदमयश्चेति |

अन्नमयकोशः
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् |

प्राणमयकोशः
प्राणमयः कः ?
प्राणाद्याः पंचवायवः वागादींद्रियपंचकं प्राणमयः कोशः |

मनोमयकोशः
मनोमयः कोशः कः ?
मनश्च ज्ञानेंद्रियपंचकं मिलित्वा यो भवति स मनोमयः कोशः |

विज्ञानमयकोशः
विज्ञानमयः कः ?
बुद्धिज्ञानेंद्रियपंचकं मिलित्वा यो भवति स विज्ञानमयः कोशः

आनंदमयकोशः
आनंदमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनंदमयः कोशः |
एतत्कोशपंचकम् |

पंचकोशातीत
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुंडल गृहादिकं
स्वस्माद्भिन्नं तथा पंचकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ||

आत्मन्
आत्मा तर्हि कः ?
सच्चिदानंदस्वरूपः |
सत्किम् ?
कालत्रयेऽपि तिष्ठतीति सत् |
चित्किम् ?
ज्ञानस्वरूपः |
आनंदः कः ?
सुखस्वरूपः |
एवं सच्चिदानंदस्वरूपं स्वात्मानं विजानीयात् |

जगत्
अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः |

माया
ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति |

पंचभूताः
ततः आकाशः संभूतः |
आकाशाद् वायुः |
वायोस्तेजः |
तेजस आपः |
अभ्धयः पृथिवी |

सत्त्वगुणः
एतेषां पंचतत्त्वानां मध्ये
आकाशस्य सात्विकांशात् श्रोत्रेंद्रियं संभूतम् |
वायोः सात्विकांशात् त्वगिंद्रियं संभूतम् |
अग्नेः सात्विकांशात् चक्षुरिंद्रियं संभूतम् |
जलस्य सात्विकांशात् रसनेंद्रियं संभूतम् |
पृथिव्याः सात्विकांशात् घ्राणेंद्रियं संभूतम् |

अंतःकरण
एतेषां पंचतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहंकार चित्तांतःकरणानि संभूतानि |
संकल्पविकल्पात्मकं मनः |
निश्चयात्मिका बुद्धिः |
अहंकर्ता अहंकारः |
चिंतनकर्तृ चित्तम् |
मनसो देवता चंद्रमाः |
बुद्धे ब्रह्मा |
अहंकारस्य रुद्रः |
चित्तस्य वासुदेवः |

रजोगुणः
एतेषां पंचतत्त्वानां मध्ये
आकाशस्य राजसांशात् वागिंद्रियं संभूतम् |
वायोः राजसांशात् पाणींद्रियं संभूतम् |
वन्हेः राजसांशात् पादेंद्रियं संभूतम् |
जलस्य राजसांशात् उपस्थेंद्रियं संभूतम् |
पृथिव्या राजसांशात् गुदेंद्रियं संभूतम् |
एतेषां समष्टिराजसांशात् पंचप्राणाः संभूताः |

तमोगुणः
एतेषां पंचतत्त्वानां तामसांशात्
पंचीकृतपंचतत्त्वानि भवंति |
पंचीकरणं कथं इति चेत् |
एतेषां पंचमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् |
तदा पंचीकरणं भवति |
एतेभ्यः पंचीकृतपंचमहाभूतेभ्यः स्थूलशरीरं भवति |
एवं पिंडब्रह्मांडयोरैक्यं संभूतम् |

जीवः, ईश्वरः च
स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिंबं भवति |
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति |
अविद्योपाधिः सन् आत्मा जीव इत्युच्यते |
मायोपाधिः सन् ईश्वर इत्युच्यते |
एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यंतं तिष्ठति
तावत्पर्यंतं जन्ममरणादिरूपसंसारो न निवर्तते |
तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या |

तत् त्वं असि
ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य
ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
विरुद्धधर्माक्रांतत्वात् |
इति चेन्न | स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः |
उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं
त्वंपदलक्ष्यार्थः |
एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः |
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः |
एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः |

जीवन्मुक्तः
एवं च वेदांतवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
भूतेषु येषां
ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः |ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किंतु असंगः सच्चिदानंद स्वरूपः प्रकाशरूपः सर्वांतर्यामी
चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ||ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबंधविनिर्मुक्तः
स्यात् |

कर्माणि
कर्माणि कतिविधानि संतीति चेत्
आगामिसंचितप्रारब्धभेदेन त्रिविधानि संति |

आगामि कर्म
ज्ञानोत्पत्त्यनंतरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते |

संचित कर्म
संचितं कर्म किम् ?
अनंतकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् संचितं ज्ञेयम् |

प्रारब्ध कर्म
प्रारब्धं कर्म किमिति चेत् |
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति |

कर्म मुक्तः
संचितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति |आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां संबंधो नास्ति |

ज्ञानिः
किंच ये ज्ञानिनं स्तुवंति भजंति अर्चयंति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्छति |
ये ज्ञानिनं निंदंति द्विषंति दुःखप्रदानं कुर्वंति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्छति |
सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णंति |

ब्रह्मानंदम्
तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानंदमिहैव प्राप्नोति |
तरति शोकमात्मवित् इति श्रुतेः |
तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा |
ज्ञानसंप्राप्तिसमये मुक्ताऽसौ विगताशयः | इति स्मृतेश्च |इति श्रीशंकरभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् |

📜 Request Stotra

🙏 If this content helped you today

Your contribution helps maintain and sustain this website. It allows us to continue sharing sacred stotras in a peaceful and accessible space.

🪔 Contribute 🙏
Powered by Razorpay

Join MantraSamhita Community on WhatsApp & Facebook

Get latest Hindu texts, spiritual updates, and exclusive content directly to you.

Join WhatsApp Follow Facebook
🙏 Your voluntary support keeps this platform ad-free.
Contribute
Powered by Razorpay
error: Content is protected !!