छोड़कर सामग्री पर जाएँ
Download App!
Download App!

Sri Gopala (Krishna) Dwadasa Nama Stotram in Hindi – श्री गोपाल (कृष्ण) द्वादशनाम स्तोत्रं

🙏

Support this Dharma Karya

Help us share the blessings of sacred mantras and keep Mantrasamhita peaceful and ad-free for everyone.

₹49

Pay via PhonePe, Google Pay or BHIM UPI, where available.

शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः |
अनंतस्याप्रमेयस्य नामद्वादशकं स्तवम् || १ ||

अर्जुनाय पुरा गीतं गोपालेन महात्मना |
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ || २ ||

ध्यानम् –
जानुभ्यामपि धावंतं बाहुभ्यामतिसुंदरम् |
सकुंडलालकं बालं गोपालं चिंतयेदुषः || ४ ||

स्तोत्रम् –
प्रथमं तु हरिं विद्याद्द्वितीयं केशवं तथा |
तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा || ५ ||

पंचमं वेदगर्भं च षष्ठं तु मधुसूदनम् |
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा || ६ ||

नवमं पुंडरीकाक्षं दशमं तु जनार्दनम् |
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा || ७ ||

एतद्द्वादशनामानि मया प्रोक्तानि फल्गुन |
कालत्रये पठेद्यस्तु तस्य पुण्यफलं शृणु || ८ ||

चांद्रायणसहस्रस्य कन्यादानशतस्य च |
अश्वमेधसहस्रस्य फलमाप्नोति मानवः || ९ ||

इति श्री गोपाल द्वादशनाम स्तोत्रम् ||

🙏

Support this Dharma Karya

Help us share the blessings of sacred mantras and keep Mantrasamhita peaceful and ad-free for everyone.

₹49

Pay via PhonePe, Google Pay or BHIM UPI, where available.

📲 Download App
error: Content is protected !!