वेणीं सितेतरसमीरणभोजितुल्यां
वाणीं च केकिकुलगर्वहरां वहंतीम् |
श्रोणीं गिरिस्मयविभेदचणां दधानां
वाणीमनन्यशरणः शरणं प्रपद्ये || १ ||
वाचः प्रयत्नमनपेक्ष्य मुखारविंदा-
-द्वाताहताब्धिलहरीमदहारदक्षाः |
वादेषु यत्करुणया प्रगलंति तां त्वां
वाणीमनन्यशरणः शरणं प्रपद्ये || २ ||
राकाशशांकसदृशाननपंकजातां
शोकापहारचतुरांघ्रिसरोजपूजाम् |
पाकारिमुख्यदिविषत्प्रवरेड्यमानां
वाणीमनन्यशरणः शरणं प्रपद्ये || ३ ||
बालोडुपप्रविलसत्कचमध्यभागां
नीलोत्पलप्रतिभटाक्षिविराजमानाम् |
कालोन्मिषत्किसलयारुणपादपद्मां
वाणीमनन्यशरणः शरणं प्रपद्ये || ४ ||
इति शृंगेरि श्रीजगद्गुरु श्रीसच्चिदानंदशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री वाणी शरणागति स्तोत्रम् ||